श्रीगणेशद्वादशाङ्गेषुमन्त्राः
|| श्रीगणेशद्वादशाङ्गेषुमन्त्राः || ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् । सर्वाङ्गलेपनेनैव तत्र मन्त्रान् शृणु प्रभो ॥ ११॥ गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् । स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२॥ ललाटं गणनाथाय नम उच्चार्य चार्चयेत् । दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३॥ वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः…