Download HinduNidhi App
Misc

श्री मातंगी कवच

Matangi Kavacham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत
Share This

॥ श्री मातङ्गी कवचम् ॥

॥ श्रीपार्वत्युवाच ॥

देवदेव महादेव सृष्टिसंहारकारक ।
मातङ्ग्याः कवचं ब्रूहि यदि स्नेहोऽस्ति ते मयि ॥

॥ शिव उवाच ॥

अत्यन्तगोपनं गुह्यं कवचं सर्वकामदम् ।
तव प्रीत्या मयाऽऽख्यातं नान्येषु कथ्यते शुभे ॥

शपथं कुरु मे देवि यदि किञ्चित्प्रकाशसे ।
अनया सदृशी विद्या न भूता न भविष्यति ॥

शवासनां रक्तवस्त्रां युवतीं सर्वसिद्धिदाम् ।
एवं ध्यात्वा महादेवीं पठेत्कवचमुत्तमम् ॥

उच्छिष्टं रक्षतु शिरः शिखां चण्डालिनी ततः ।
सुमुखी कवचं रक्षेद्देवी रक्षतु चक्षुषी ॥

महापिशाचिनी पायान्नासिकां ह्रीं सदाऽवतु ।
ठः पातु कण्ठदेशं मे ठः पातु हृदयं तथा ॥

ठो भुजौ बाहुमूले च सदा रक्षतु चण्डिका ।
ऐं च रक्षतु पादौ मे सौः कुक्षिं सर्वतः शिवा ॥

ऐं ह्रीं कटिदेशं च आं ह्रीं सन्धिषु सर्वदा ।
ज्येष्ठमातङ्ग्यङ्गुलिर्मे अङ्गुल्यग्रे नमामि च ॥

उच्छिष्टचाण्डालि मां पातु त्रैलोक्यस्य वशङ्करी ।
शिवे स्वाहा शरीरं मे सर्वसौभाग्यदायिनी ॥

उच्छिष्टचाण्डालि मातङ्गि सर्ववशङ्करि नमः ।
स्वाहा स्तनद्वयं पातु सर्वशत्रुविनाशिनी ॥

अत्यन्तगोपनं देवि देवैरपि सुदुर्लभम् ।
भ्रष्टेभ्यः साधकेभ्योऽपि द्रष्टव्यं न कदाचन ॥

दत्तेन सिद्धिहानिः स्यात्सर्वथा न प्रकाश्यताम् ।
उच्छिष्टेन बलिं दत्वा शनौ वा मङ्गले निशि ॥

रजस्वलाभगं स्पृष्ट्वा जपेन्मन्त्रं च साधकः ।
रजस्वलाया वस्त्रेण होमं कुर्यात्सदा सुधीः ॥

सिद्धविद्या इतो नास्ति नियमो नास्ति कश्चन ।
अष्टसहस्रं जपेन्मन्त्रं दशांशं हवनादिकम् ॥

भूर्जपत्रे लिखित्वा च रक्तसूत्रेण वेष्टयेत् ।
प्राणप्रतिष्ठामन्त्रेण जीवन्यासं समाचरेत् ॥

स्वर्णमध्ये तु संस्थाप्य धारयेद्दक्षिणे करे ।
सर्वसिद्धिर्भवेत्तस्य अचिरात्पुत्रवान्भवेत् ॥

स्त्रीभिर्वामकरे धार्यं बहुपुत्रा भवेत्तदा ।
वन्द्या वा काकवन्द्या वा मृतवत्सा च साङ्गना ॥

जीवद्वत्सा भवेत्सापि समृद्धिर्भवति ध्रुवम् ।
शक्तिपूजां सदा कुर्याच्छिवाबलिं प्रदापयेत् ॥

इदं कवचमज्ञात्वा मातङ्गी यो जपेत्सदा ।
तस्य सिद्धिर्न भवति पुरश्चरणलक्षतः ॥

॥ इति श्री मातङ्गी कवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री मातंगी कवच PDF

श्री मातंगी कवच PDF

Leave a Comment