|| श्रीमीनाक्षी पञ्चदशी स्तोत्रम् ||
ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं ।
कस्मात्पर्वतराजराजतनये त्वत्पादपद्मे न तं
दीनं मां समुपेक्षसे मम दृशोः भानं कुतो लुप्यते ।
को वा त्वत्च्चरणारविन्दभजनं कुर्वन् कृती भूतले
दारिद्र्यं लभते कथं च जननी दृष्ट्या विहीनो भवेत् ॥
एवं पाण्ड्यनृपात्मजेति भुवने को वा जगन्मात रं
स्तोतुं त्वां निपुणो महेश्वरी शिवे नाहं समर्थस्ततः ।
एतन्न्याय्यमिति त्वमेव मनसा निश्चित्य सङ्गृह्य मां
चक्षुष्मन्तमथाढ्यमाशुकुरुषे यद्यम्ब माता मम ॥
ईशात्वं सकलार्थ दान निपुणा कर्मानुसारान्नृणां
पूर्वं त्वं बहुपाप कर्म कृतवान् एतत्फलं भुज्यताम् ।
ईशित्रीति तवाम्बिके भगवति नामार्थशून्यं भवेत्
त्वद्भक्तैः कृतकार्यमत्र सकलं नोचेत्तवाराधनम् ॥
लक्ष्मीं क्षीरसमुद्रराजतनयां त्वद्भक्तगेहे स्थिरां
कर्तुं शक्तिरहो तवास्ति जननि गेहे परं मे कुतः ।
लक्ष्मीस्थापन मुख्यकार्य विमुका त्वं भासि सर्वेश्वरी
लक्ष्मीं स्थापय शीघ्रमेव भवती चक्षूच्च सन्देहि मे ॥
ह्रीङ्कारार्णव कौस्तुभां भगवतीं श्रीपाण्ड्यराजात्मजां
भक्तत्राण परायणां हरिहरब्रह्मादिवन्द्यां शिवाम् ।
ह्रीम्मध्यां त्रिदशेश्वरीं त्रिनयनश्रीतुल्य सौभाग्यदां
वन्देहं मम दृष्टिदोष तमसां भेत्रीं परामम्बिकाम् ॥
हत्वा शुम्भनिशुम्भमुख्यदितिजान् देवेप्सितार्थप्रद
दुर्गा मामकचक्षुषः तिमिरमप्यद्याऽशु विध्वंसयेत् ।
हत्वा चाक्षुषदोषमद्यजननी मां पालयेत् बालकं
तां नित्यं प्रणतोस्म्यहं विनयतः सेवे जगत्पालिनीम् ॥
सर्वेशीं निजभक्तकल्पलतिकां कामेश्वरीं कामदां
सर्वज्ञां सदसद्विलक्षण जगत्सत्ताप्रदां शाश्वतीम् ।
सत्यज्ञान सुखात्मिकां भगवतीं मायामयीं मोहिनीं
वन्देऽहं मधुरेश्वरीं नयनयोः दिव्यप्रकाशाप्तये ॥
कस्त्वं किं फलमिच्छसीति जननीप्रश्ने नकश्चिच्छिवे
वक्तुं त्वां निपुणः त्वमेव चतुरा ज्ञातुं स्वरूपं मम ।
कोऽहं ब्रूहि महेश्वरोहं इति वा त्वं वाहमेवाम्बिके
को भेदःशिवयोः तथैव शिवदे जीवेशयोर्वा कथम् ॥
हंसीत्वं भुवनेति शङ्करगुरोः वाक्येन जानाम्यहं
त्वामेवाम्ब ममापिदोषमखिलं कृत्वा गुणं पालय ।
हंसस्सोहमितीह मन्त्र जपतः प्रत्यक्षतो दर्शनं
त्वद्रूपस्य ममाऽपि देहि शिवदे श्रीराजराजेश्वरि ॥
लक्ष्मीं देहि सदा ममाऽपि कृपया श्रीपाण्ड्यराजात्मजे
दोषं चाक्षुषमप्यसह्यमेव नितरां दूरीकुरुत्वं शिवे ।
लक्ष्मी वाङ्मुखदेवताभिरनिशं संस्तूयमानां परां
त्वामेवात्र समाश्रये नहि परा देवी त्रिलोक्यां खलु ॥
ह्रीं बीजैः त्रिविधैः शिखासु घटिताः खण्डाः त्रयः शङ्करि
यस्मिन् मन्त्रवरे सचापि मनुराट् यस्याः स्वरूपं शिवे ।
ह्रीं मायेति च कथ्यते बुधवरैः या शक्तिराद्यापरा
सा त्वं देवि नमस्करोमि भवतीं देह्यात्मचक्षुः परे ॥
सर्वे विष्णुमुखाः सुराश्च जननि त्वच्छासने संस्थिताः
तस्माद्देवि नवग्रहाः तव मते स्थित्वैव सौख्यप्रदाः ।
सत्येवं मम दुःखमेव बहुधा कुर्वन्ति सूर्योदयः
देवाः त्वत्पदपद्ममेव शरणं प्राप्तोऽस्मि मां पालय ॥
कष्टं त्वद्भजने निवर्त्तत इति श्रुत्वा भजाम्यम्बिके
त्वामेवाद्य तथाऽपि मे नहि सुखं तत्कारणं ब्रूहि मे ।
कष्टात्कष्टपरम्परा मम गृहे संवर्धते मानदे
मातुस्ते शिशुपालनात् विमुखता नैवोचिता शाम्भवी ॥
लाभोयं परमः महेश्वरि शिवे त्वत्पूजने यन्मनः
नित्यं वर्तत इत्यहो भगवति तत्र स्थिरं कुर्विदम् ।
लक्ष्मीं वा हरिनाभिपद्मजसखीं नित्यं वशे मे कुरु
मुख्यं मे नयनस्य पाटवमपि त्वं देहि मातः परे ॥
ह्रीम्बीजाक्षरवासिनि शशिकले श्रीचक्र रूपेशिवे
मीनाक्षि मलयध्वजाधिपसुते श्रीसुन्दरेशप्रिये ।
ह्रीं ह्रीं ह्रीमिति मन्त्रराजमनिशं जप्त्वाऽम्बिकां त्वामहं
दृष्टुं देहि ममाद्य चक्षुरमलं त्वां पूजयाम्यन्वहम् ॥
इति श्रीमीनाक्षी पञ्चदशी स्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now