|| अमृतसञ्जीवनस्तोत्रम् ||
अथापरमहं वक्ष्येऽमृतसञ्जीवनं स्तवम् ।
यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते ॥ १॥
असाध्याः कष्टसाध्याश्च महारोगा भयङ्कराः ।
शीघ्रं नश्यन्ति पठनादस्यायुश्च प्रवर्धते ॥ २॥
शाकिनीडाकिनीदोषाः कुदृष्टिग्रहशत्रुजाः ।
प्रेतवेतालयक्षोत्था बाधा नश्यन्ति चाखिलाः ॥ ३॥
दुरितानि समस्तानि नानाजन्मोद्भवानि च ।
संसर्गजविकाराणि विलीयन्तेऽस्य पाठतः ॥ ४॥
सर्वोपद्रवनाशाय सर्वबाधाप्रशान्तये ।
आयुःप्रवृद्धये चैतत्स्तोत्रं परममद्भुतम् ॥ ५॥
बालग्रहाभिभूतानां बालानां सुखदायकम् ।
सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम् ॥ ६॥
बालानां जीवनायैतत्स्तोत्रं दिव्यं सुधोपमम् ।
मृतवत्सत्त्वहरणं चिरजीवित्वकारकम् ॥ ७॥
महारोगाभिभूतानां भयव्याकुलितात्मनाम् ।
सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् ॥ ८॥
अल्पमृत्युश्चापमृत्युः पाठादस्य प्रणश्यति ।
जलाग्निविषशस्त्रारिनखिशृङ्गिभयं तथा ॥ ९॥
गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् ।
महारोगहरं नॄणामल्पमृत्युहरं परम् ॥ १०॥
बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः ।
भवन्ति सुखिनः पाठादस्य लोके चिरायुषः ॥ ११॥
अस्मात्परतरं नास्ति जीवनोपाय ऐहिकः ।
तस्मात्सर्वप्रयत्नेन पाठमस्य समाचरेत् ॥ १२॥
अयुतावृत्तिकं वाथ सहस्रावृत्तिकं तथा ।
तदर्धं वा तदर्धं वा पठेदेतच्च भक्तितः ॥ १३॥
कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः ।
सायं प्रातश्च विधिवत्स्तोत्रमेतत्पठेत्सुधीः ॥ १४॥
सर्पिषा हविषा वाऽपि संयावेनाथ भक्तितः ।
दशांशमानतो होमङ्कुर्यात्सर्वार्थसिद्धये ॥ १५॥
अथ स्तोत्रम् –
नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय नमो नमो मुक्तिवरप्रदाय ॥ १६॥
नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय ॥ १७॥
नमो नमस्ते सकलार्तिहर्त्रे नमो नमस्ते विरुजप्रकर्त्रे ।
नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे ॥ १८॥
सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ १९॥
यो धन्वन्तरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।
आयुर्वेदमरीरचन्द्ररतरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ २०॥
स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्यसम्मोहनं
कृत्वा पाययति स्म यः सुरगणान्पीयूषमत्युत्तमम् ।
चक्रे दैन्यगणान्सुधाविरहितान्सम्मोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ २१॥
चाक्षुषोदधिसप्लावभूवेदप झषाकृते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २२॥
पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २३॥
याच्ञाछलबलित्रासमुक्तनिर्जर वामन ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २४॥
धरोद्धारहिरण्याक्षघातक्रोडाकृते प्रभो ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २५॥
भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २६॥
क्षत्रियारण्यसञ्छेदकुठारकर रैणुक ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २७॥
रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २८॥
भूभारासुरसन्दोहकालाग्ने रुक्मिणीपते ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ २९॥
वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ३०॥
कलिवर्णाश्रमास्पष्टधर्मर्द्ध्यै कल्किरूपभाक् ।
सिञ्च सिञ्चामृतकणैश्चिरं जीवय जीवय ॥ ३१॥
असाध्याः कष्टसाध्या ये महारोगा भयङ्कराः ।
छिन्धि तानाशु चक्रेण चिरं जीवय जीवय ॥ ३२॥
अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् ।
भिन्धि भिन्धि गदाघातैश्चिरं जीवय जीवय ॥ ३३॥
अहं न जाने किमपि त्वदन्यत्समाश्रये नाथ पदाम्बुजं ते ।
कुरुष्व तद्यन्मनसीप्सितं ते सुकर्मणा केन समक्षमीयाम् ॥ ३४॥
त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धुः ।
विद्याधनागारकुलं त्वमेव त्वमेव सर्वं मम देवदेव ॥ ३५॥
न मेऽपराधं प्रविलोकय प्रभोऽपराधसिन्धोश्च दयानिधिस्त्वम् ।
तातेन दुष्टोऽपि सुतः सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान् ॥ ३६॥
अहह विस्मर नाथ च मां सदा करुणया निजया परिपूरितः ।
भुवि भवान् यदि मे नहि रक्षकः कथमहो मम जीवनमत्र वै ॥ ३७॥
दह दह कृपया त्वं व्याधिजालं विशालं
हर हर करवालं चाल्पमृत्योः करालम् ।
निजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ ३८॥
न यत्र धर्माचरणं च दानं व्रतं न यागो न च विष्णुचर्चा ।
न पितृगोविप्रवरामरार्चा स्वल्पायुषस्तत्र जना भवन्ति ॥ ३९॥
क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकलदुरितानि नाशय
नाशय क्ष्रौं आमारोग्यं कुरु कुरु ह्रीं दीर्घमायुर्देहि देहि स्वाहा ।
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ ४०॥
शतं पञ्चाशतं शक्त्याथवा पञ्चाधिविंशतिम् ।
पुस्तकानां द्विजेभ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ ४१॥
भूर्जपत्रे विलिख्येदं कण्ठे वा बाहुमूलके ।
सन्धारयेद्गर्भरक्षा बालरक्षा च जायते ॥ ४२॥
सर्वे रोगा विनश्यन्ति सर्वा बाधा प्रशाम्यति ।
कुदृष्टिजं भयं नश्येत्तथा प्रेतादिजं भयम् ॥ ४३॥
मया कथितमेतत्तेऽमृतसञ्जीवनं परम् ।
अल्पमृत्युहरं स्तोत्रं मृतवत्सत्त्वनाशनम् ॥ ४४॥
इति श्रीसुदर्शनसंहितान्तर्गतं अमृतसञ्जीवनस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now