Shri Vishnu

अम्बरीषकतं विष्णुस्तोत्रम्

Ambarishakatamvishnustotram Sanskrit Lyrics

Shri Vishnu ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अम्बरीषकतं विष्णुस्तोत्रम् ||

अम्बरीष उवाच ।
प्रसीद देव सर्वात्मन्नसङ्ख्येयशिरोभुज ।
असङ्ख्यघ्राणनयनपाणिपाद नमोऽस्तु ते ॥ ३७॥

षट्त्रिंशत्तत्त्वातीतोऽसि निष्प्रपञ्च प्रपञ्चकः ।
चतुर्विधजगद्धाम विश्वमूर्ते नमोऽस्तु ते ॥ ३८॥

एकपादस्त्रिपादश्च तीर्थपादोंऽतरिक्षपात् ।
यस्य पादोद्भवा गङ्गा पुनाति भुवनत्रयम् ॥ ३९॥

ब्रह्महत्यादिपापानां शोधकं यस्य नाम वै ।
कीर्तितं सर्वशुभदं नमस्तस्मै शुभात्मने ॥ २.५.४०॥

देव त्वन्नामकीर्त्यापि जायन्ते सर्वसिद्धयः ।
कौतुकात्त्वां हि मृग्यन्ति विद्वांसो बुद्धिशालिनः ॥ ४१॥

नाथ त्वत्पादसलिलं संश्रयात्तापहारकम् ।
तापत्रयाभिभूतस्य भक्तिं मेऽत्र दृढां कुरु ॥ ४२॥

अनन्यस्वामिनो मेऽद्य नास्त्यन्यत्प्रार्थनीयकम् ।
प्रणिपत्य जगन्नाथ त्वां प्रयाचे सहस्रधा ॥ ४३॥

समस्तपुरुषार्थस्य बीजं त्वत्पादपङ्कजे ।
यावत्प्राणान्धारयामि तावद्भक्तिर्दृढास्तु मे ॥ ४४॥

सृष्टिं विनिर्ममे चेमां यया भक्त्या पितामहः ।
संहरत्यखिलं रुद्रो लक्ष्मीश्चैश्वर्यदायिनी ॥ ४५॥

दीनानुकम्पिंस्तां भक्तिं प्रार्थये नान्यमानसः ।
अनाद्यविद्यापङ्केऽस्मिन्सुदृढे दुस्तरं भृशम् ॥ ४६॥

निमग्नस्य जगन्नाथ निरालम्बं प्रणश्यतः ।
महामहिम्नस्त्वद्भक्तेर्नान्यदस्ति परायणम् ॥ ४७॥

श्रुतिस्मृत्यादिसम्भिन्नमार्गाः सम्मोहहेतवः ।
त्वद्भक्तिमपहायेते न प्रवर्त्तितुमीश्वराः ॥ ४८॥

अनन्यशरणं स्वामिन्ननुकम्पय मां विभो ।
इति स्तुवञ्जगन्नाथपादपद्मान्तिके मुदा ॥ ४९॥

पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः ॥

इति श्रीस्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तमजगन्नाथमाहात्म्ये
पञ्चमाध्यायान्तर्गतं अम्बरीषकृतं विष्णुस्तोत्रं समाप्तम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download अम्बरीषकतं विष्णुस्तोत्रम् PDF

अम्बरीषकतं विष्णुस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App