Misc

नारदमुनिकृता मूषकगस्तुतिः

Mushakagastutihnaradamunikrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नारदमुनिकृता मूषकगस्तुतिः ||

॥ श्रीगणेशाय नमः ॥
देवर्षय ऊचुः ।
सर्वेषां भोगभोक्त्रे मूषकगाय नमो नमः ।
सर्वदेवाधिदेवाय गणेशाय नमो नमः ॥ ३१॥

लम्बोदराय विघ्नानां नायकाय परात्मने ।
भक्तानां विघ्नहर्त्रे ते विघ्नदात्रे दुरात्मनाम् ॥ ३२॥

हेरम्बाय नमस्तुभ्यं भक्तवत्सलरूपिणे ।
स्वानन्दवासिने चैव परेशाय नमो नमः ॥ ३३॥

महोदराय पूज्याय सर्वेषां सर्वरूपिणे ।
सर्वादिपूज्यकायैव वक्रतुण्डाय ते नमः ॥ ३४॥

त्रिनेत्राय चतुर्हस्तकमलस्य धराय ते ।
मूषकोपरिसंस्थाय ज्येष्ठराजाय ते नमः ॥ ३५॥

अमेयाय गणाध्यक्ष शूर्पकर्णप्रधारिणे ।
सर्वेशाय नमस्तुभ्यं ब्रह्मणे ब्रह्मरूपिणे ॥ ३६॥

अनादये तथा मध्ये नानारूपधराय ते ।
अन्ते तादृशरूपाय त्रिस्वरूपाय वै नमः ॥ ३७॥

शेषपुत्राय शैवाय पाराशर्याय ते नमः ।
सर्वेषां जनकायैव मात्रे ब्रह्मेश ते नमः ॥ ३८॥

स्रष्ट्रे पात्रे च संहर्त्रे गणेशाय नमो नमः ।
शान्तिरूपाय शान्तिभ्यः शान्तिदाय नमो नमः ॥ ३९॥

अपारगुणधाराय योगिनां हृदि संस्थित ।
तत् किं स्तुमो नः प्रसीद गणाधीश नमो नमः ॥ ४०॥

एवं स्तुत्वा गणेशानं प्रणेमुस्ते सुरर्षयः ।
प्रसन्नात्मा मूषकगस्तानुवाच प्रहर्षितः ॥ ४१॥

(फलश्रुतिः)
मूषकग उवाच ।
कृतं मे स्तवनं सर्वैर्भवद्भिः सर्वदं भवेत् ।
यद्यदिच्छथ तत्तद्दास्यामि वै भक्तितन्त्रितः ॥ ४२॥

पठतां श‍ृण्वतां नित्यं स्वाधीनोऽहं भवामि च ।
भुक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् ॥ ४३॥

वरं वृणुत देवेशा देवा मुनिसमन्विताः ।
दास्यामि स्तोत्रतुष्टोऽहं वाञ्छितं नात्र संशयः ॥ ४४॥

इति नारदमुनिकृता मूषकगस्तुतिः सम्पूर्णा ॥

Found a Mistake or Error? Report it Now

Download नारदमुनिकृता मूषकगस्तुतिः PDF

नारदमुनिकृता मूषकगस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App