Misc

नाममाहात्म्याष्टकम्

Namamahatmyashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नाममाहात्म्याष्टकम् ||

कथं बन्धनाशो भवेदाशु देव
त्वदीयाङ्घ्रिमूले गतोहं वराकः ।
सुरोवानरो वायदा जन्मपात्रं
ततः किं ततः किं ततः किं नु दुःखम् ॥ १॥

तनोः क्लेशभाजो विचित्रस्य हेतुः
कुमोहाम्बरं हि श्रुतेः शास्त्रवाक्यात् ।
सदैवावृतोहं पठेनैव तेन
ततः किं ततः किं ततः किं नु दुःखम् ॥ २॥

हरेर्नाममुक्तिं करं निःसहायं
सहोपासनं नोगृहस्थादिधर्मैः ।
यदा नाम मुक्त्वा करोत्यन्ययोगं
ततः किं ततः किं ततः किं नु दुःखम् ॥ ३॥

हरेर्नामतुल्यो न वेदादिपाठो
व्रतं तीर्थवासो न वायोः प्रयासः ।
तदन्येषु लग्नो यदा तज्जहाति
ततः किं ततः किं ततः किं नु दुःखम् ॥ ४॥

अधर्मौघकाष्ठान्स्वभूनामवह्नि- (स्वभू एवं श्रीविष्णु)
र्दहत्येव सद्यः समूलाञ्जनानाम् ।
अतः सेवितव्यं यदानेन मुक्त-
स्ततः किं ततः किं ततः किं नु दुःखम् ॥ ५॥

विना नाम मोक्षं न भोः सार्वभौम्ये
न पैत्रे न चैन्द्रे तथा ब्रह्मलोके ।
तदर्थं यतेत्त्वं यदा भोगरक्त-
स्ततः किम् ततः किं ततः किं नु दुःखम् ॥ ६॥

अहं सोऽस्मि सोऽहं मनुर्वेद मूलः
सदा कीर्तनीयो गुरोः प्राप्य विज्ञात् ।
विवेकादियुक्तो न तल्लग्नचेता-
स्ततः किम् ततः किं ततः किं नु दुःखम् ॥ ७॥

अथोङ्कारमन्त्रो हरेर्नाम मुख्यो
निदिध्यासितव्यः सदा बन्धनाशे ।
यदुक्तं मया तेन तद्बोधता चे-
त्ततः किम् ततः किं ततः किं नु दुःखम् ॥ ८॥

इति श्रीमत्परमहंसोदासीनशिरोवतंसस्वामिज्ञानदासशिष्यगोपालदासाख्येन
विरचितं नाममाहात्म्याष्टकं समाप्तम् ।

Found a Mistake or Error? Report it Now

Download नाममाहात्म्याष्टकम् PDF

नाममाहात्म्याष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App