Misc

श्रीनटेश्वर भुजङ्गस्तुतिः

Nateshvarabhujangastuti Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनटेश्वर भुजङ्गस्तुतिः ||

श्रीज्ञानसम्बन्धकृता

लोकानाहूय सर्वान् डमरुकनिनदैर्घोरसंसारमग्नान्
दत्वाऽभीतिं दयालुः प्रणतभयहरं कुञ्चितं वामपादम् ।
उद्धृत्येदं विमुक्तेरयनमिति कराद्दर्शयन् प्रत्ययार्थं
बिभ्रद्वह्निं सभायां कलयति नटनं यः स पायान्नटेशः ॥ १॥

दिगीशादिवन्द्यं गिरीशानचापं मुरारातिबाणं पुरत्रासहासम् ।
करीन्द्रादिचर्माम्बरं वेदवेद्यं महेशं सभेशं भजेऽहं नटेशम् ॥ २॥

समस्तैश्च भूतैस्सदा नम्यमाद्यं समस्तैकबन्धुं मनोदूरमेकम् ।
अपस्मारनिघ्नं परं निर्विकारं महेशं सभेशं भजेऽहं नटेशम् ॥ ३॥

दयालुं वरेण्यं रमानाथवन्द्यं महानन्दभूतं सदानन्दनृत्तम् ।
सभामध्यवासं चिदाकाशरूपं महेशं सभेशं भजेऽहं नटेशम् ॥ ४॥

सभानाथमाद्यं निशानाथभूषं शिवावामभागं पदाम्भोजलास्यम् ।
कृपापाङ्गवीक्षं ह्युमापाङ्गदृश्यं महेशं सभेशं भजेऽहं नटेशम् ॥ ५॥

दिवानाथरात्रीशवैश्वानराक्षं प्रजानाथपूज्यं सदानन्दनृत्तम् ।
चिदानन्दगात्रं परानन्दसौघं महेशं सभेशं भजेऽहं नटेशम् ॥ ६॥

करेकाहलीकं पदेमौक्तिकालिं गलेकालकूटं तलेसर्वमन्त्रम् ।
मुखेमन्दहासं भुजेनागराजं महेशं सभेशं भजेऽहं नटेशम् ॥ ७॥

त्वदन्यं शरण्यं न पश्यामि शम्भो मदन्यः प्रपन्नोऽस्ति किं तेऽतिदीनः ।
मदर्थे ह्युपेक्षा तवासीत्किमर्थं महेशं सभेशं भजेऽहं नटेशम् ॥ ८॥

भवत्पादयुग्मं करेणावलम्बे सदा नृत्तकारिन् सभामध्यदेशे ।
सदा भावये त्वां तथा दास्यसीष्टं महेशं सभेशं भजेऽहं नटेशम् ॥ ९॥

भूयः स्वामिन् जनिर्मे मरणमपि तथा मास्तु भूयः सुराणां
साम्राज्यं तच्च तावत्सुखलवरहितं दुःखदं नार्थये त्वाम् ।
सन्तापघ्नं पुरारे धुरि च तव सभामन्दिरे सर्वदा त्वन्-
नृत्तं पश्यन्वसेयं प्रमथगणवरैः साकमेतद्विधेहि ॥ १०॥

इति श्रीज्ञानसम्बन्धकृता श्रीनटेश्वर भुजङ्गस्तुतिः समाप्ता ।

Found a Mistake or Error? Report it Now

Download श्रीनटेश्वर भुजङ्गस्तुतिः PDF

श्रीनटेश्वर भुजङ्गस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App