Misc

श्रीनटेश पञ्चरत्नस्तोत्रम्

Nateshapancharatnamstota Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीनटेश पञ्चरत्नस्तोत्रम् ||

॥ ध्यानम् ॥

वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः
श्री मद्-व्यास पतञ्जलीत्युभयतः वाय्वादिकोणेषु च ।
श्रीमत्तिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः
मध्ये स्वर्ण सभापतिर्विजयते हृत्पुण्डरीके पुरे ॥

॥ अथ श्री नटेश पञ्चरत्नम् ॥

श्रीमच्चिदम्बरनटनात् नटराजराजात्
विद्याधिपात् विविधमङ्गलदानशौण्डात् ।
पूर्णेन्दु सुन्दर मुखात् द्विजराजचूडात्
भर्गात्परं किमपि तत्त्वमहं न जाने ॥ १॥

डक्काविभूशितकरात् विषनीलकण्टात्
फुल्लारविन्दनयनात् फणिराजवन्द्यात् ।
व्याघ्रांघ्रि पूज्यचरणात् शिवकुञ्चिताङ्घ्रेः
शम्भोः परं किमपि तत्त्वमहं न जाने ॥ २॥

श्रीनाथमृग्यचरणात् विधिमृग्यचूडात्
श्रीपुण्डरीक निलयात् श्रितदुःखनाशात् ।
श्रीमद्गुहस्य जनकात् सुखटत्तराजात्
श्रीशात्परं किमपि तत्त्वमहं न जाने ॥ ३॥

श्रीमद्गणेशजनकात् मखिवृन्दपूज्यात्
तिल्लीटवीसुनिलयात् त्रिपुराम्बिकेशात् ।
व्याघ्राजिनाम्बरधरात् उरूरोगनाशात्
रुद्रात्परं किमपि तत्त्वमहं न जाने ॥ ४॥

श्रीमद्-व्याघ्रपुरेश्चरात् फणिराजभूषात्
संसार रोगभिषजः निखिलाण्डपालात् ।
श्रीमद्धेमसभेश्वरात् ललिताम्बिकेशात्
स्थाणोः परं किमपि तत्त्वमहं न जाने ॥ ५॥

॥ अथ फलश्रुतिः ॥

पञ्चरत्नं नटेशस्य सोमशेखरयज्वभिः ।
संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गलम् ॥

॥ इति श्री नटेश पञ्चरत्नं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीनटेश पञ्चरत्नस्तोत्रम् PDF

श्रीनटेश पञ्चरत्नस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App