ज्ञानप्रसूनाम्बास्तोत्रम्
|| ज्ञानप्रसूनाम्बास्तोत्रम् || माणिक्याञ्चितभूषणां मणिवरां माहेन्द्रनीलोज्ज्वलां मन्दारद्रुममाल्यभूषितकचां मत्तेभकुम्भस्तनीम् । मौलिस्तोमनुतां मराळगमनां माध्वीरसानन्दिनीं ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १॥ श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् । रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २॥ कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् । कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां ध्याये चेतसि काळहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३॥ भावातीतमनःप्रभावभरितां ब्रह्माण्डभाण्डोदरीं बालां बालकुरङ्गनेत्रयुगलां…



