|| पाणिनिकृतं रुद्रस्तोत्रम् ||
पाणिनिरुवाच ।
नमो रुद्राय महते सर्वेशाय हितैषिणे ।
नन्दीसंस्थाय देवाय विद्याभयकराय च ॥ ७॥
पापान्तकाय भर्गाय नमोऽनन्ताय वेधसे ।
नमो मायाहरेशाय नमस्ते लोकशङ्कर ॥ ८॥
यदि प्रसन्नो देवेश विद्यामूलप्रदो भव ।
परं तीर्थं हि मे देहि द्वैमातुरपितर्नमः ॥ ९॥
इति भविष्यपुराणे प्रतिसर्गपर्वणि द्वितीयखण्डे एकत्रिंशाध्यायान्तर्गतं
पाणिनिकृतं रुद्रस्तोत्रं समाप्तम् ।
Found a Mistake or Error? Report it Now