Misc

पाशुपतास्त्रस्तोत्रम्

Pashupatastrastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| पाशुपतास्त्रस्तोत्रम् ||

ईश्वर उवाच
वक्ष्ये पाशुपतास्त्रेण शान्तिजापादि पूर्वतः ।
पादतः पूर्वनाशो हि फडन्तं चापदादिनुत् ॥ ३२२.१॥

ॐ नमो भगवते महापाशुपतायातुलबलवीर्यपराक्रमाय
त्रिपञ्चनयनाय नानारूपाय नानाप्रहरणोद्यताय (नानाप्रहरणयोग्यताय)
सर्वाङ्गरक्ताय भिन्नाञ्जनचयप्रख्याय श्मशानवेतालप्रियाय
सर्वविघ्ननिकृन्तनरताय (सर्वविघ्ननिकृन्तनाय)
सर्वसिद्धिप्रदाय भक्तानुकम्पिने
असङ्ख्यवक्त्रभुजापादाय तस्मिन्सिद्धाय वेतालवित्रासिने
शाकिनीक्षोभजनकाय व्याधिनिग्रहकारिणे पापभञ्जनाय
सूर्यसोमाग्निनेत्राय विष्णुकवचाय खड्गवज्रहस्ताय
यमदण्डवरुणापाशाय रूद्रशूलाय ज्वलज्जिह्वाय सर्वरोगविद्रावणाय
ग्रहनिग्रहकारिणे दुष्टनागक्षयकारिणे ।

ॐ कृष्णपिङ्गलाय फट् । हूङ्कारास्त्राय (क्रूराय) फट् । वज्रहस्ताय फट् ।
शक्तये फट् । दण्डाय फट् । यमाय फट् । खड्गाय फट् । नैरृताय
फट् । वरुणाय फट् । वज्राय फट् । पाशाय फट् । ध्वजाय फट् ।
अङ्कुशाय फट् । गदायै फट् । कुबेराय फट् । (कुवेशाय फट्)
त्रिशूलाय फट् । मुद्गराय फट् । चक्राय फट् । पद्माय फट् ।
नागास्त्राय फट् । ईशानाय फट् । खेटकास्त्राय फट् । मुण्डाय फट् ।
मुण्डास्त्राय फट् । कङ्कालास्त्राय फट् । पिच्छिकास्त्राय फट् ।
क्षुरिकास्त्राय फट् । ब्रह्मास्त्राय फट् । शक्त्यस्त्राय फट् ।
गणास्त्राय फट् । सिद्धास्त्राय फट् । पिलिपिच्छास्त्राय फट् ।
गन्धर्वास्त्राय फट् । पूर्वास्त्रायै (मूर्वास्त्राय) फट् । दक्षिणास्त्राय फट् ।
वामास्त्राय फट् । पश्चिमास्त्राय फट् । मन्त्रास्त्राय फट् ।
शाकिन्यस्त्राय फट् । योगिन्यस्त्राय फट् । दण्डास्त्राय फट् ।
महादण्डास्त्राय फट् । नागास्त्राय (नमोऽस्त्राय नानास्त्राय नामास्त्राय) फट् ।
शिवास्त्राय फट् । ईशानास्त्राय फट् । पुरुषास्त्राय फट् ।
अघोरास्त्राय (वामदेवास्त्राय) फट् । सद्योजातास्त्राय फट् ।
हृदयास्त्राय फट् । महास्त्राय फट् । गरुडास्त्राय फट् ।
राक्षसास्त्राय फट् । दानवास्त्राय फट् । क्षौं नरसिंहास्त्राय फट् ।
त्वष्ट्रास्त्राय फट् । सर्वास्त्राय फट् ।
(खः फट् ।) नः फट् । वः फट् । पः फट् । (फः फट् ।) मः फट् ।
श्रीः फट् । फेः फट् । भूः फट् । भुवः फट् ।
स्वः फट् । महः फट् । जनः फट् । तपः फट् । (सत्यं फट् ।)
सर्वलोक फट् । सर्वपाताल फट् । सर्वतत्त्व फट् ।
सर्वप्राण फट् । सर्वनाडी फट् । सर्वकारण फट् । सर्वदेव फट् ।
ह्रीं फट् । श्रीं फट् । हूं फट् । स्त्रुं फट् । स्वां फट् । लां फट् ।
वैराग्याय फट् । मायास्त्राय फट् । कामास्त्राय फट् । क्षेत्रपालास्त्राय
फट् । हूङ्कारास्त्राय फट् । भास्करास्त्राय फट् । चन्द्रास्त्राय फट् ।
विघ्नेश्वरास्त्राय फट् । (गौः गां फट् ।) ख्रों ख्रौं फट् । ह्रौं
ह्रों फट् । भ्रामय भ्रामय फट् । (सन्तापय सन्तापय फट् ।)
छादय छादय फट् । उन्मूलय उन्मूलय फट् । त्रासय त्रासय फट् ।
सञ्जीवय सञ्जीवय फट् । विद्रावय विद्रावय फट् । सर्वदुरितं
नाशय नाशय फट् ।

सकृदावर्तनादेव सर्वविघ्नान् विनाशयेत् ।
शतावर्तेन चोत्पातान्रणादौ विजयी भवेत् ॥ ३२२.२ ॥

घृतगुग्गुलहोमाच्च आसाध्यानपि साधयेत् ।
पठनात्सर्वशान्तिः स्याच्छस्त्रापाशुपतस्य च ॥ ३२२.३ ॥

इत्यादिमहापुराणे आग्नेये पाशुपतशान्तिर्नाम
द्वाविंशत्यधिकत्रिशततमोऽध्यायः ॥

इति पाशुपतास्त्रस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download पाशुपतास्त्रस्तोत्रम् PDF

पाशुपतास्त्रस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App