Misc

प्रदोषस्तोत्राष्टकम्

Pradoshastotra Ashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| प्रदोषस्तोत्राष्टकम् ||

सत्यं ब्रवीमि परलोकहितं ब्रवीमि
सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि ।
संसारमुल्बणमसारमवाप्य जन्तोः
सारोऽयमीश्वरपदाम्बुरुहस्य सेवा ॥ १ ॥

ये नार्चयन्ति गिरिशं समये प्रदोषे
ये नार्चितं शिवमपि प्रणमन्ति चान्ये ।
एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढा-
-स्ते जन्मजन्मसु भवन्ति नरा दरिद्राः ॥ २ ॥

ये वै प्रदोषसमये परमेश्वरस्य
कुर्वन्त्यनन्यमनसोङ्घ्रिसरोजपूजाम् ।
नित्यं प्रवृद्धधनधान्यकलत्रपुत्र-
-सौभाग्यसम्पदधिकास्त इहैव लोके ॥ ३ ॥

कैलासशैलभवने त्रिजगज्जनित्रीं
गौरीं निवेश्य कनकाञ्चितरत्नपीठे ।
नृत्यं विधातुमभिवाञ्छति शूलपाणौ
देवाः प्रदोषसमयेऽनुभजन्ति सर्वे ॥ ४ ॥

वाग्देवी धृतवल्लकी शतमखो वेणुं दधत्पद्मज-
-स्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता ।
विष्णुः सान्द्रमृदङ्गवादनपटुर्देवाः समन्तात् स्थिताः
सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम् ॥ ५ ॥

गन्धर्वयक्षपतगोरगसिद्धसाध्या
विद्याधरामरवराप्सरसां गणांश्च ।
येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः
प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः ॥ ६ ॥

अतः प्रदोषे शिव एक एव
पूज्योऽथ नान्ये हरिपद्मजाद्याः ।
तस्मिन्महेशे विधिनेज्यमाने
सर्वे प्रसीदन्ति सुराधिनाथाः ॥ ७ ॥

एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः
प्रतिग्रहैर्वयो निन्ये न यज्ञाद्यैः सुकर्मभिः ।
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि
तद्दोषपरिहारार्थं शरणं यातु शङ्करम् ॥ ८ ॥

इति श्रीस्कान्दपुराणे ब्रह्मखण्डे तृतीये ब्रह्मोत्तरखण्डे षष्ठोऽध्याये शाण्डिल्य कृत प्रदोषस्तोत्राष्टकम् ।

Found a Mistake or Error? Report it Now

प्रदोषस्तोत्राष्टकम् PDF

Download प्रदोषस्तोत्राष्टकम् PDF

प्रदोषस्तोत्राष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App