Misc

रामानुज स्तोत्र

Ramanuja Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| रामानुज स्तोत्र ||

पाषण्डद्रुमषण्डदाव- दहनश्चार्वाकशैलाशनि-
र्बौद्धध्वान्तनिरासवासर- पतिर्जैनेभकण्ठीरवः।

मायावादिभुजङ्गभङ्ग- गरुडस्त्रैविद्यचूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः।

पाषण्डषण्डगिरि- खण्डनवज्रदण्डाः
प्रच्छन्नबौद्धमकरालय- मन्थदण्डाः।

वेदान्तसारसुख- दर्शनदीपदण्डाः
रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः।

चारित्रोद्धारदण्डं चतुरनयपथा- लङ्क्रियाकेतुदण्डं
सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम्।

त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्र- सौवर्णदण्डं
धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम्।

त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपथा- रोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सगुणनयकथासम्पदां हारसूत्रम्।

प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं यतीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम्।

पाषण्डसागर- महावडवामुखाग्निः
श्रीरङ्गराज- चरणाम्बुजमूलदासः।

श्रीविष्णुलोकमणि- मण्डपमार्गदायी
श्रीरामानुजो विजयते यतिराजराजः।

Found a Mistake or Error? Report it Now

रामानुज स्तोत्र PDF

Download रामानुज स्तोत्र PDF

रामानुज स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App