रामानुज स्तोत्र PDF

रामानुज स्तोत्र PDF हिन्दी

Download PDF of Ramanuja Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| रामानुज स्तोत्र || पाषण्डद्रुमषण्डदाव- दहनश्चार्वाकशैलाशनि- र्बौद्धध्वान्तनिरासवासर- पतिर्जैनेभकण्ठीरवः। मायावादिभुजङ्गभङ्ग- गरुडस्त्रैविद्यचूडामणिः श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः। पाषण्डषण्डगिरि- खण्डनवज्रदण्डाः प्रच्छन्नबौद्धमकरालय- मन्थदण्डाः। वेदान्तसारसुख- दर्शनदीपदण्डाः रामानुजस्य विलसन्ति मुनेस्त्रिदण्डाः। चारित्रोद्धारदण्डं चतुरनयपथा- लङ्क्रियाकेतुदण्डं सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम्। त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्र- सौवर्णदण्डं धत्ते रामानुजार्यः प्रतिकथकशिरोवज्रदण्डं त्रिदण्डम्। त्रय्या माङ्गल्यसूत्रं त्रियुगयुगपथा- रोहणालम्बसूत्रं सद्विद्यादीपसूत्रं सगुणनयकथासम्पदां हारसूत्रम्। प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं रक्षासूत्रं यतीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम्। पाषण्डसागर- महावडवामुखाग्निः श्रीरङ्गराज-...

READ WITHOUT DOWNLOAD
रामानुज स्तोत्र
Share This
रामानुज स्तोत्र PDF
Download this PDF