Misc

ऋणहर गणेश स्तोत्र

Runahara Ganesha Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| ऋणहर गणेश स्तोत्र ||

ॐ सिन्दूरवर्णं द्विभुजं गणेशं
लम्बोदरं पद्मदले निविष्टम्।

ब्रह्मादिदेवैः परिसेव्यमानं
सिद्धैर्युतं तं प्रणमामि देवम्।।

सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये।
सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।।

त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः।
सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।।

हिरण्यकश्यप्वादीनां वधार्थे विष्णुनार्चितः।
सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।।

महिषस्य वधे देव्या गणनाथः प्रपूजितः।
सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।।

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः।
सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।।

भास्करेण गणेशो हि पूजितश्छविसिद्धये।
सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।।

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः।
सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।।

पालनाय च तपसां विश्वामित्रेण पूजितः।
सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।।

इदम् ऋणहरस्तोत्रं तीव्रदारिद्र्यनाशनम्।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः।

दारिद्र्यं दारुणं त्यक्त्वा कुबेरसमतां व्रजेत्।।
ॐ गणेश ऋणं छिन्धि वरेण्यं हुं नमः फट् ।

Found a Mistake or Error? Report it Now

ऋणहर गणेश स्तोत्र PDF

Download ऋणहर गणेश स्तोत्र PDF

ऋणहर गणेश स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App