Misc

श्रीसर्वोत्तमस्तोत्रम्

Sarvottamastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीसर्वोत्तमस्तोत्रम् ||

प्राकृतधर्मानाश्रयमप्राकृतनिखिलधर्मरूपमिति ।
निगमप्रतिपाद्यं यतच्छुद्धं साकृति स्तौमि ॥ १॥

कलिकालतमश्छन्नदृष्टित्वाद्विदुषामपि ।
सम्प्रत्यविषयस्तस्य माहात्म्यं समभूद्भुवि ॥ २॥

दयया निजमाहात्म्यं करिष्यन् प्रकटं हरिः ।
वाण्या यदा तदा स्वास्यं प्रादुर्भूतं चकार हि ॥ ३॥

तदुक्तमपि दुर्बोधं सुबोधं स्याद्यथा तथा ।
तन्नामाष्टोत्तरशतं प्रवक्ष्याम्यखिलाघहृत् ॥ ४॥

ऋषिरग्निकुमारस्तु नाम्ना छन्दो जगत्यसौ ।
श्रीकृष्णाऽस्यं देवता च बीजं कारुणिकः प्रभुः ॥ ५॥

विनियोगो भक्तियोगप्रतिबन्धविनाशने ।
कृष्णाधरामृतास्वादसिद्धिरत्र न संशयः ॥ ६॥

आनन्दः परमानन्दः श्रीकृष्णास्यं कृपानिधिः ।
दैवोद्धारप्रयत्नात्मा स्मृतिमात्रार्तिनाशनः ॥ ७॥

श्रीभागवतगूढार्थप्रकाशनपरायणः ।
साकारब्रह्मवादैकस्थापको वेदपारगः ॥ ८॥

मायावादनिराकर्ता सर्ववादिनिरासकृत् ।
भक्तिमार्गाब्जमार्तण्डः स्त्रीशूद्राद्युद्धृतिक्षमः ॥ ९॥

अङ्गीकृत्यैव गोपीशवल्लभीकृतमानवः ।
अङ्गीकृतौ समर्यादो महाकारुणिको विभुः ॥ १०॥

अदेयदानदक्षश्च महोदारचरित्रवान् ।
प्राकृतानुकृतिव्याजमोहितासुरमानुषः ॥ ११॥

वैश्वानरो वल्लभाख्यः सद्रूपो हितकृत्सताम् ।
जनशिक्षाकृते कृष्णभक्तिकृन्निखिलेष्टदः ॥ १२॥

सर्वलक्षणसम्पन्नः श्रीकृष्णज्ञानदो गुरुः ।
स्वानन्दतुन्दिलः पद्मदलायतविलोचनः ॥ १३॥

कृपादृग्वृष्टिसंहृष्टदासदासीप्रियः पतिः ।
रोषदृक्पातसम्प्लुष्टभक्तद्विड् भक्तसेवितः ॥ १४॥

सुखसेव्यो दुराराध्यो दुर्लभाङ्घ्रिसरोरुहः ।
उग्रप्रतापो वाक्सीधुपूरिताशेषसेवकः ॥ १५॥

श्रीभागवतपीयूषसमुद्रमथनक्षमः ।
तत्सारभूतरासस्त्रीभावपूरितविग्रहः ॥ १६॥

सान्निध्यमात्रदत्तश्रीकृष्णप्रेमा विमुक्तिदः ।
रासलीलैकतात्पर्यः कृपयैतत्कथाप्रदः ॥ १७॥

विरहानुभवैकार्थसर्वत्यागोपदेशकः ।
भक्त्याचारोपदेष्टा च कर्ममार्गप्रवर्तकः ॥ १८॥

यागादौ भक्तिमार्गैकसाधनत्वोपदेशकः ।
पूर्णानन्दः पूर्णकामो वाक्पतिर्विबुधेश्वरः ॥ १९॥

कृष्णनामसहस्रस्य वक्ता भक्तपरायणः ।
भक्त्याचारोपदेशार्थनानावाक्यनिरूपकः ॥ २०॥

स्वर्थोज्झिताखिलप्राणप्रियस्तादृशवेष्टितः ।
स्वदासार्थकृताशेषसाधनः सर्वशक्तिधृक् ॥ २१॥

भुवि भक्तिप्रचारैककृते स्वान्वयकृत्पिता ।
स्ववंशे स्थापिताशेषस्वमाहात्म्यः स्मयापहः ॥ २२॥

पतिव्रतापतिः पारलौकिकैहिकदानकृत् ।
निगूढहृदयोऽनन्यभक्तेषु ज्ञापिताशयः ॥ २३॥

उपासनादिमार्गातिमुग्धमोहनिवारकः ।
भक्तिमार्गे सर्वमार्गवैलक्षण्यानुभूतिकृत् ॥ २४॥

पृथक्शरणमार्गोपदेष्टा श्रीकृष्णहार्दवित् ।
प्रतिक्षणनिकुञ्जस्थलीलारससुपूरितः ॥ २५॥

तत्कथाक्षिप्तचित्तस्तद्विस्मृतान्यो व्रजप्रियः ।
प्रियव्रजस्थितिः पुष्टिलीलाकर्ता रहःप्रियः ॥ २६॥

भक्तेच्छापूरकः सर्वाज्ञातलीलोऽतिमोहनः ।
सर्वासक्तो भक्तमात्रासक्तः पतितपावनः ॥ २७॥

स्वयशोगानसंहृष्टहृदयाम्भोजविष्टरः ।
यशःपीयूषलहरीप्लावितान्यरसः परः ॥ २८॥

लीलामृतरसार्द्रार्द्रीकृताखिलशरीरभृत् ।
गोवर्धनस्थित्युत्साहस्तल्लीलाप्रेमपूरितः ॥ २९॥

यज्ञभोक्ता यज्ञकर्ता चतुर्वर्गविशारदः ।
सत्यप्रतिज्ञस्त्रिगुणातीतो नयविशारदः ॥ ३०॥

स्वकीर्तिवर्धनस्तत्त्वसूत्रभाष्यप्रदर्शकः ।
मायावादाख्यतूलाग्निर्ब्रह्मवादनिरूपकः ॥ ३१॥

अप्राकृताखिलाकल्पभूषितः सहजस्मितः ।
त्रिलोकीभूषणं भूमिभाग्यं सहजसुन्दरः ॥ ३२॥

अशेषभक्तसम्प्रार्थ्यचरणाब्जरजोधनः ।
इत्यानन्दनिधेः प्रोक्तं नाम्नामष्टोत्तरशतम् ॥ ३३॥

श्रद्धाविशुद्धबुद्धिर्यः पठत्यनुदिनं जनः ।
स तदेकमनाः सिद्धिमुक्तां प्राप्नोत्यसंशयम् ॥ ३४॥

तदप्राप्तौ वृथा मोक्षस्तदाप्तौ तद्गतार्थता ॥

अतः सर्वोत्तमस्तोत्रं जप्यं कृष्णरसार्थिभिः ॥ ३५॥

इति श्रीमदग्निकुमारप्रोक्तं सर्वोत्तमस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीसर्वोत्तमस्तोत्रम् PDF

श्रीसर्वोत्तमस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App