Misc

श्रीशबरिगिर्यष्टकम्

Shabarigiryashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशबरिगिर्यष्टकम् ||

शबरिगिरिपते भूतनाथ ते जयतु मङ्गलं मञ्जुलं महः ।
मम हृदिस्थितं ध्वान्तरं तवः नाशयद्विदं स्कन्द सोदर ॥ १॥

कान्तगिरिपते कामितार्थदं कान्तिमद्तव काङ्क्षितं मया ।
दर्शयाद्भुतं शान्तिमन्महः पूरयार्थितं शबरिविग्रह ॥ २॥

पम्पयाञ्चिते परममङ्गले दुष्टदुर्गमे गहनकानने ।
गिरिशिरोवरे तपसिलालसं ध्यायतां मनः हृष्यति स्वयम् ॥ ३॥

त्वद्दिदृक्षय सञ्चितव्रताः तुलसिमालिकः कम्रकन्धरा ।
शरण भाषिण शङ्घसोजन कीर्तयन्तिते दिव्यवैभवम् ॥ ४॥

दुष्टशिक्षणे शिष्टरक्षणे भक्तकङ्कणे मिशतिते गणे ।
धर्मशास्त्रे त्वयि च जाग्रति संस्मृते भयं नैव जायते ॥ ५॥

पूर्णपुष्कला सेविताप्यहो योगिमानसाम्भोज भास्करः ।
हरिगजादिभिः परिवृतो भवान् निर्भयस्वयं भक्तभीहरः ॥ ६॥

वाचिवर्त्ततां दिव्यनामते मनसिसन्ततं तावहं महः ।
श्रवणयोर्भवद्गुणगणावलिः नयनयोर्भवत् मूर्तिरद्भुताः ॥ ७॥

करयुगं मम त्वद्पदार्चने पदयुगं सदा त्वद्प्रदक्षिणे ।
जीवितं भवद्भक्तपूजने प्रणतमस्तुते पूर्णकरुणया ॥ ८॥

इति श्रीशबरिगिर्यष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीशबरिगिर्यष्टकम् PDF

श्रीशबरिगिर्यष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App