Misc

श्रीशरवणभवमानसपूजास्तोत्रम्

Sharavanabhavamanasapujastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशरवणभवमानसपूजास्तोत्रम् ||

ॐ श्रीगणेशाय नमः ।
गुकारो ह्याख्याति प्रबलमनिवार्यं किल तमो
हकारो हानिं च प्रथयतितरामेव जगति ।
अतो मोहान्धत्वं शिथिलयति यन्नाम गुह इ-
त्यमुं देवं ध्यायाम्यभिलषितसन्धाननिपुणम् ॥ १॥

समाश्लिष्टं वल्ल्या समुपघटितं बाहुविटपैः
स्वमूलायातानां समुचितफलप्रापणचणम् ।
स्वसेवानिष्ठानां सततमपि सौख्योपगमकं
सदा ध्यायाम्येनं कमपि तु गुहाख्यं विटपिनम् ॥ २॥

सुराणां सङ्घातैस्समुपगतैः सान्द्रकुतुकैः
समाराध्य स्वामिन् भज विहितमावाहनमिदम् ।
समन्तात्सद्रत्नैः समुपहितसोपानसरणि-
स्फुरन्नानाशोभं रचितमपि सिंहासनमिदम् ॥ ३॥

हृतं गङ्गातुङ्गाद्यखिलतटिनीभ्योऽतिविमलं
सुतीर्थं पाद्यार्थं तव निहितमङ्गीकुरु विभो ।
तथा पुण्यैस्तीर्थैर्विहितमिदमर्घ्याचमनकं
दयार्द्रां दृष्टिं मे दिश दिश दयाब्धे हरसुत ॥ ४॥

समन्तात्स्नानीयैः परिमलगुणोत्कर्षभरितैः
स्फुरन्माणिक्यादिप्रतिखचितसद्रत्नफलके ।
समासीनं हि त्वां सुचिरमभिषञ्चन्नसुलभं
परानन्दं यास्याम्यनुपधिकृपाब्धे हरसुत ॥ ५॥

सुवासोभिश्चाङ्गं तव किल समाच्छाद्य सपदि
प्रसाध्यांसे शुभ्रं विमलमुपवीतं नवगुणम् ।
प्रभूतांस्ते गन्धान् गिरिशसुत सन्धाय निटिले
सुखासीनं हि त्वां ननु खलु दिदृक्षे चपलधीः ॥ ६॥

किरीटानां षट्कं तव हि कलयन् षण्मुख शिर-
स्स्वथ ग्रीवायां ते समनुघटयन् हारलतिकाम् ।
ललाटेष्वातन्वन् तिलकमथ ते कुण्डलगणं
समर्घं श्रोत्रेषु क्षणमपि दिदृक्षे भवसुत ॥ ७॥

अमन्दैर्मन्दारद्रुमकुसुमसङ्घैः सुरभिलैः
समर्चन् सामोदं तव हि सुकुमाराङ्गमखिलम् ।
समन्तात्सम्प्लावां तव वदनसौन्दर्यलहरीं
सदा स्मारं स्मारं सफलयितुमीशे जनिमिमाम् ॥ ८॥

समाजिघ्र स्वामिन्नगरुयुतधूपं करुणया
जिघृक्षस्वापीमानमलघृतदीपानुपहृतान् ।
गृहाणाज्यप्लावान् मृदुलतरभक्ष्याणि विविधा-
न्युपादत्स्वाप्यन्नं विविधमथ पञ्चामृतमपि ॥ ९॥

सुकर्पूरस्वादुक्रमुकयुतमेलादिकलितं
सुताम्बूलं स्वामिन् सदयमुपगृह्णीष्व मृदुलम् ।
ततस्ते कर्पूरैस्सुरभितरनीराजनविधिं
प्रकुर्वन्नाधास्ये तव शिरसि पुष्पाञ्जलिमपि ॥ १०॥

करोमि स्वामिंस्ते निखिलमुपचारं प्रवणधीः
दयार्द्रास्ते दृष्टीर्विकिर गिरिजानन्दन मयि ।
समन्तात्संसारव्यसनकलुषीभूतहृदयं
परित्रायस्वाशापरवशितमापन्नमपि माम् ॥ ११॥

इमां चेतः पूजां शरवणभुवो यः किल पठेत्
सकृद्वाऽन्यैर्गीतं सपदि श‍ृणुयाद्भक्तिभरितः ।
न तं संसाराशा परवशयते नापि विषयाः
क्रमात्पुण्यात्माऽयं ननु भजति कैवल्यपदवीम् ॥ १२॥

इति श्रीजगद्गुरुश‍ृङ्गेरीपीठाधीशश्रीचन्द्रशेखरभारती
श्रीपादैःकृतं श्रीशरवणभवमानसपूजास्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीशरवणभवमानसपूजास्तोत्रम् PDF

श्रीशरवणभवमानसपूजास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App