Misc

श्रीपादश्रीवल्लभस्तोत्रम्

Shripadashrivallabhastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीपादश्रीवल्लभस्तोत्रम् ||

ब्राह्मण्यै यो मङ्क्षु भिक्षान्नतोऽभूत्प्रीतस्तस्या यः कृपार्द्रः सुतोऽभूत् ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ १॥

आश्वास्याम्बां प्रव्रजन्नग्रजान्यः कृत्वा स्वङ्गान् सञ्चचारार्यमान्यः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ २॥

सार्भा मर्तुं योद्यता स्त्रीस्तु तस्या दुःखं हर्तुं त्वं स्वयं तत्सुतः स्याः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ ३॥

राज्यं योऽदादाशु निर्णेजकाय प्रीतो नत्या यः स्वगुप्त्यै नृकायः ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ ४॥

प्रेतं विप्रं जीवयित्वाऽस्तजूर्ति यश्चक्रे दिक्शालिनीं स्वीयकीर्तिम् ।
विस्मृत्यास्मान् किं स गाढं निदद्रौ श्रीपादद्रौ वापदाहानिदद्रौ ॥ ५॥

इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीपादश्रीवल्लभस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीपादश्रीवल्लभस्तोत्रम् PDF

श्रीपादश्रीवल्लभस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App