|| बृहद्बलकृता शिवगिरिजास्तुतिः ||
सुरेश्वरं निरीश्वरं गिरीश्वरं नटेश्वरं
महेश्वरं मयस्करं शिवं भजेय शङ्करम् ।
भुजङ्गराजहारकं सुमारमारहारकं
महाविषाग्निधारकं भजे विमुक्तिदायकम् ॥ १॥
सुरारिवृन्ददुःखदं शुभाङ्गदं शुभास्पदं
सुबद्धकर्ममोक्षदं भजे शिवं विमुक्तिदम् ।
विधीन्द्रविष्णुसन्मुखं महागिरीन्द्रजासखं
धनेशमुख्यसत्सखं भजे शिवं मदुन्मुखम् ॥ २॥
उमापतिं सभापतिं दिशाम्पतिं पशोर्पतिं
गिराम्पतिं पतेर्पतिं भजे शिवं दिवस्पतिम् ॥ ३॥
दन्वित्वक्परिधान शङ्कर महादेवेश मा मा जहि
विभ्रन्मेरुशरासनं हरिशरो हस्तेन जिघ्रन् शिरः ।
तूर्णं तर्णकमेत्य प्रम्नुतपयः पूरा यथा गौर्भवेत्
तद्वत्त्वं गिरिजामनोहर विभो हृत्पद्मसंस्थो मम ॥ ४॥
त्वत्पादभ्रमरस्य भक्तिसुरसामोदाप्तये केवलम् ॥ ५॥
विष्णुवेदे च गीतस्त्वमसि भगवन् शङ्कर विभो
सुधन्वा चापि त्वं त्वमसि भव विश्वाधिक भिषक् ।
तमीशानं यक्ष्ये निखिलसुमनस्त्वाय च हरं
नमामि त्वत्पादं शरणद शिवं स्तौमि वचसा ॥ ६॥
उन्मत्तकुम्भिकरसन्निभकण्ठसंस्थ
(उन्मत्तकुम्भिकरसन्निभोकुरु)
कुम्भीनसोल्लसविलोलसुभूरिहारम् ।
(कुम्भीनसोल्लासविलोलहारम्)
कुम्भीन्द्रवक्त्रोज्ज्वलपुत्रवर्यं
भजामि कुम्भोद्भवपूजिताङ्घ्रिम् ॥ ७॥
विद्रुमाधरनिराकृतबिम्बां वक्त्रनिर्जितसुधाकरबिम्बाम् ।
ईश्वरीमनिशमात्तकदम्बां मन्मनः स्पृशतु तां जगदम्बाम् ॥ ८॥
पादयोरवनतामरदारान् भक्तलोककलुषाद्विदारान् ।
भावुकस्य हृदयाधिविहारान्मन्मनो भज जगत्पतिदारान् ॥ ९॥
पापराशिषु शिखां भृशमौर्वीं विभ्रतीमधिकचं स्मरमौर्वीम् ।
नेत्रपद्मजधनेषु सुगुर्वीं मन्मनः स्पृशतु तां हृदि गुर्वीम् ॥ १०॥
॥ इति शिवरहस्यान्तर्गते बृहद्बलकृता शिवगिरिजास्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritनन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः
- sanskritहेमबाहु प्रोक्ता महादेवस्तुतिः
- sanskritकुलेश्वरपाण्ड्यकृता महादेवस्तुतिः
- sanskritमहादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता
- sanskritलोभासुरकृता महादेवस्तुतिः
- sanskritयाज्ञवल्क्यप्रोक्ता महादेवस्तुतिः
- sanskritऋषिभिः कृता महादेवस्तुतिः
- sanskritश्रीमहादेवस्तुतिः २
- sanskritमहादेवस्तुतिः
- sanskritदक्षकृता शिवस्तुतिः
- sanskritश्रीशिवास्तुतिकदम्बम्
- sanskritशम्भु स्तुति
- sanskritनटराज स्तुति
- hindiशिव जी स्तुति
- sanskritभैरवरूप शिव स्तुति
Found a Mistake or Error? Report it Now