|| श्रीशिवकामसुन्दरीसहस्रनामस्तोत्रम् रुद्रयामलान्तर्गतम् ||
॥ पूर्वपीठिका ॥
समाहूय परं कान्तं एकदा विजने मुदा ।
परमानन्दसन्दोहमुदितं प्राह पार्वती ॥ १॥
पार्वती उवाच
श्रीमन्नाथ महानन्दकारणं ब्रूहि शङ्कर ।
योगीन्द्रोपास्य देवेश प्रेमपूर्ण सुधानिधे ॥ २॥
कृपास्ति मयि चेत् शम्भो सुगोप्यमपि कथ्यताम् ।
शिवकामेश्वरीनामसाहस्रं वद मे प्रभो ॥ ३॥
श्रीशङ्कर उवाच
निर्भरानन्दसन्दोहः शक्तिभावेन जायते ।
लावण्यसिन्धुस्तन्नापि सुन्दरी रसकन्धरा ॥ ४॥
तामेवानुक्षणं देवि चिन्तयामि ततः शिवे ।
तस्या नामसहस्राणि कथयामि तव प्रिये ॥ ५॥
सुगोप्यान्यपि रम्भोरु गम्भीरस्नेहविभ्रमात् ।
तामेव स्तुवता देवीं ध्यायतोऽनुक्षणं मम ।
सुखसन्दोहसम्भारभावनानन्दकारणम् ॥ ६॥
अस्य श्रीशिवकामसुन्दरीसहस्रनाम स्तोत्रमहामन्त्रस्य ।
सदाशिव ऋषिः अनुष्टुप् छन्दः श्रीमच्छिवकामसुन्दरी देवता ।
वाग्भवस्वरूपं ऐं बीजम् । चिदानन्दात्मकं ह्रीं शक्तिः ।
कामराजात्मकं क्लीं कीलकम् ।
श्रीमच्छिवकामसुन्दरीप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
षोडशार्णमूलेन न्यासः ॥
षोडशार्णध्यानमेव अत्रापि ध्यानम् ।
सिद्धसिद्धनवरत्नभूमिके कल्पवृक्षनववाटिसंवृते ।
रत्नसालवनसम्भृतेऽनिशं तत्र वापिशतकेन संवृते ॥ ७॥
रत्नवाटिमणिमण्डपेऽरुणे चपडभानुशतकोटिभासुरे ।
आदिशैवमणिमञ्चके परे शङ्कराङ्कमणिपीठकोपरि ॥
कादिहान्तमनुरूपिणीं शिवां संस्मरेच्च शिवकामसुन्दरीम् ॥ ८॥
लमित्यादि पञ्चपूजा ॥
शिवकामेश्वरीनामसाहस्रस्तोत्रमुत्तमम् ।
प्रोच्यते श्रद्धया देवि शृणुष्वावहिता प्रिये ॥ ९॥
कामेशीनामसाहस्रे सदाशिव ऋषिः स्मृतः ।
छन्दोऽनुष्टुप् देवता च शिवकामेश्वरी स्मृता ॥ १०॥
ऐं बीजं कीलकं क्लीं च ह्रीं शक्तिः कथिता प्रिये ।
न्यासध्यानादिकं सर्वं षोडशार्णवदीरितम् ॥ ११॥
अनेन स्तोत्रराजेन सर्वाभीष्टं लभेत ना ।
॥ अथ सहस्रनामस्तोत्रम् ॥
श्रीशिवा शिवकामी च सुन्दरी भुवनेश्वरी ।
आनन्दसिन्धुरानन्दानन्दमूर्तिर्विनोदिनी ॥ १॥
त्रैपुरी सुन्दरी प्रेमपाथोनिधिरनुत्तमा ।
रामोल्लासा परा भूतिः विभूतिश्शङ्करप्रिया ॥ २॥
शृङ्गारमूर्तिर्विरता रसानुभवरोचना ।
परमानन्दलहरी रतिरङ्गवती सती ॥ ३॥
रङ्गमालानङ्गकलाकेलिः कैवल्यदा कला ।
रसकल्पा कल्पलता कुतूहलवती गतिः ॥ ४॥
विनोददुग्धा सुस्निग्धा मुग्धमूर्तिनोहरा ।
बालार्ककोटिकिरणा चन्द्रकोटिसुशीतला ॥ ५॥
स्रवत्पीयूषदिग्धाङ्गी सङ्गीत नटिका शिवा ।
कुरङ्गनयना कान्ता सुखसन्ततिरिन्दिरा ॥ ६॥
मङ्गला मधुरापाङ्गा रञ्जनी रमणी रतिः ।
राजराजेश्वरी राज्ञी महेन्द्रपरिवन्दिता ॥ ७॥
प्रपञ्चगतिरीशानी सामरस्यपरायणा ।
हंसोल्लासा हंसगतिः शिञ्जत्कनकनूपुरा ॥ ८॥
मेरुमन्दरवक्षोजा सृणिपाशवरायुधा ।
शङ्खकोदण्डसस्ताब्जपाणिद्वयविराजिता ॥ ९॥
चन्द्रबिम्बानना चारुमकुटोत्तंसचन्द्रिका ।
सिन्दूरतिलका चारुधम्मिल्लामलमालिका ॥ १०॥
मन्दारदाममुदिता रक्तपुष्पविभूषिता ।
सुवर्णाभरणप्रीता मुक्तादाममनोहरा ॥ ११॥
ताम्बूलपूरवदना मदनानन्दमानसा ।
सुखाराध्या तपस्सारा कृपावारिधिरीश्वरी ॥ १२॥
वक्षःस्थललसन्मग्ना प्रभा मधुरसोन्मुखा ।
बिन्दुनादात्मिका चारुरसिता तुर्यरूपिणी ॥ १३॥
कमनीयाकृतिः धन्या शङ्करप्रीतिमञ्जरी ।
कन्या कलावती माता गजेन्द्रगमना शुभा ॥ १४॥
कुमारी करभोरु श्रीः रूपलक्ष्मीः सुराजिता ।
सन्तोषसीमा सम्पत्तिः शातकुम्भप्रिया द्युतिः ॥ १५॥
परिपूर्णा जगद्धात्री विधात्री बलवर्धिनी ।
सार्वभौमनृपश्रीश्च साम्राज्यगतिरासिका ॥ १६॥
सरोजाक्षी दीर्घदृष्टिः सौचक्षणविचक्षणा ।
रङ्गस्रवन्ती रसिका प्रधानरसरूपिणी ॥ १७॥
रससिन्धुः सुगात्री च युवतिः मैथुनोन्मुखी ।
निरन्तरा रसासक्ता शक्तिस्त्रिभुवनात्मिका ॥
कामाक्षी कामनिष्ठा च कामेशी भगमङ्गला ।
सुभगा भगिनी भोग्या भाग्यदा भयदा भगा ।
भगलिङ्गानन्दकला भगमध्यनिवासिनी ॥ १९॥
भगरूपा भगमयी भगयन्त्रा भगोत्तमा ।
योनिर्जया कामकला कुलामृतपरायणा ॥ २०॥
कुलकुण्डालया सूक्ष्मजीवस्फुलिङ्गरूपिणी ।
मूलस्थिता केलिरता वलयाकृतिरीडिता ॥ २१॥
सुषुम्ना कमलानन्दा चित्रा कूर्मगतिर्गिरिः ।
सितारुणा सिन्धुरूपा प्रवेगा निर्धनी क्षमा ॥ २२॥
धण्टाकोटिरसारावा रविबिम्बोत्थिताद्भूता ।
नादान्तलीना सम्पूर्णा प्रणवा बहुरूपिणी ॥ २३॥
भृङ्गारावा वशगतिः वागीशी मधुरध्वनिः ।
वर्णमाला सिद्धिकला षट्चक्रक्रमवासिनी ॥ २४॥
मणिपूरस्थिता स्निग्धा कूर्मचक्रपरायणा ।
मूलकेलिरता साध्वी स्वाधिष्ठाननिवासिनी ॥ २५॥
अनाहतगतिर्दीपा शिवानन्दमयद्युतिः ।
विरुद्धरुधा सम्बुद्धा जीवभोक्त्री स्थलीरता ॥ २६॥
आज्ञाचक्रोज्ज्वलस्फारस्फुरन्ती निर्गतद्विषा ।
चन्द्रिका चन्द्रकोटीशी सूर्यकोटिप्रभामयी ॥ २७॥
पद्मरागारुणच्छाया नित्याह्लादमयीप्रभा ।
महाशून्यालया चन्द्रमण्डलामृतनन्दिता ॥ २८॥
कान्ताङ्गसङ्गमुदिता सुधामाधुर्यसम्भृता ।
महाचन्द्रस्मितालिसा मृत्पात्रस्था सुधाद्युतिः ॥ २९॥
स्रवत्पीमूषसंसक्ता शश्वत्कुण्डालया भवा ।
श्रेयो द्युतिः प्रत्यगर्था सेवा फलवती मही ॥ ३०॥
शिवा शिवप्रिया शैवा शङ्करी शाम्भवी विभुः ।
स्वयम्भू स्वप्रिया स्वीया स्वकीया जनमातृका ॥
सुरामा स्वप्रिया श्रेयः स्वाधिकाराधिनायिका ।
मण्डला जननी मान्या सर्वमङ्गलसन्ततिः ॥ ३२॥
भद्रा भगवती भाव्या कलितार्धेन्दुभासुरा ।
कल्याणललिता काम्या कुकर्मकुमतिप्रदा ॥ ३३॥
कुरङ्गाक्षी क्षीरनेत्रा क्षीरा मधुरसोन्मदा ।
वारुणीपानमुदिता मदिरामुदिता स्थिरा ॥ ३४॥
कादम्बरीपानरुचिः विपाशा पशुभावना ।
मुदिता ललितापाङ्गा दरान्दोलितदीर्घदृक् ॥ ३५॥
दैत्याकुलानलशिखा मनोरथसुधाद्युतिः ।
सुवासिनी पीतगात्री पीनश्रोणिपयोधरा ॥ ३६॥
सुचारुकबरी दध्युदध्युत्थिमौक्तिका ।
बिम्बाधरद्युतिः मुग्धा प्रवालोत्तमदीधितिः ॥ ३७॥
तिलप्रसूननासाग्रा हेममौक्तिककोरका ।
निष्कलङ्केन्दुवदना बालेन्दुवदनोज्वला ॥ ३८॥
नृत्यन्त्यञ्जननेत्रान्ता प्रस्फुरत्कर्णशष्कुली ।
भालचन्द्रातपोन्नद्धा मणिसूर्यकिरीटिनी ॥ ३९॥
कचौघचम्पकश्रेणी मालिनीदाममण्डिता ।
हेममाणिक्य ताटङ्का मणिकाञ्चन कुण्डला ॥ ४०॥
सुचारुचुबुका कम्बुकण्ठी कुण्डावली रमा ।
गङ्गातरङ्गहारोर्मिः मत्तकोकिलनिस्वना ॥ ४१॥
मृणालविलसद्बाहुपाशाकुशधनुर्धरा ।
केयूरकङ्कणश्रेणी नानामणिमनोरमा ॥ ४२॥
ताम्रपङ्कजपाणिश्रीः नवरत्नप्रभावती ।
अङ्गुलीयमणिश्रेणी कान्तिमङ्गलसन्ततिः ॥ ४३॥
मन्दरद्वन्द्वसुकुचा रोमराजिभुजङ्गिका ।
गम्भीरनाभिस्त्रिवलीभङ्गुरा क्षणिमध्यमा ॥ ४४॥
रणत्काञ्चीगुणानद्धा पट्टांशुकनितम्बिका ।
मेरुसन्धिनितम्बाढ्या गजशुण्डोरुयुग्मयुक् ॥ ४५॥
सुजानुर्मदनानन्दमयजङ्घाद्वयान्विता ।
गूढगुल्फा मञ्जुशिञ्जन्मणिनूपुरमण्डिता ॥ ४६॥
पदद्वन्द्वजिताम्भोजा नखचन्द्रावलीप्रभा ।
सुसीमप्रपदा राजंहसमत्तेभमन्दगा ॥ ४७॥
योगिध्येयपदद्वद्वा सौन्दर्यामृतसारिणी ।
लावपयसिन्धुः सिन्दूरतिलका कुटिलालका ॥ ४८॥
साधुसीमन्तिनी सिद्धबुद्धवृन्दारकोदया ।
बालार्ककिरणश्रेणिशोणश्रीः प्रेमकामधुक् ॥ ४९॥
रसगम्भीरसरसी पद्मिनी रससारसा ।
प्रसन्नासन्नवरदा शारदा भुवि भाग्यदा ॥ ५०॥
नटराजप्रिया विश्वानाद्या नर्तकनर्तकी ।
चित्रयन्त्रा चित्रतन्त्रा चित्रविद्यावलीयतिः ॥ ५१॥
चित्रकूटा त्रिकूटा च पन्धकूटा च पञ्चमी ।
चतुष्ट्कूटा शम्भुविद्या षट्कूटा विष्णुपूजिता ॥ ५२॥
कूटषोडशसम्पन्ना तुरीया परमा कला ।
षोडशी मन्त्रयन्त्राणां ईश्वरी मेरुमण्डला ॥ ५३॥
षोडशार्णा त्रिवर्णा च बिन्दुनादस्वरूपिणी ।
वर्णातीता वर्णमता शब्दब्रह्ममयी सुखा ॥ ५४॥
सुखज्योत्स्नानन्दविद्युदन्तराकाशदेवता ।
चैतन्या विधिकूटात्मा कामेशी स्वप्नदर्शना ॥ ५५॥
स्वप्नरूपा बोधकरी जाग्रती जागराश्रया ।
स्वप्नाश्रया सुषुप्तिस्था तन्त्रमूर्तिश्च माधवी ॥ ५६॥
लोपामुद्रा कामराज्ञी माधवी मित्ररूपिणी ।
शाङ्करी नन्दिविद्या च भास्वन्मण्डलमध्यगा ॥ ५७॥
माहेन्द्रस्वर्गसम्पत्तिः दूर्वासस्सेविता श्रुतिः ।
साधकेन्द्रगतिस्साध्वी सुलिप्ता सिद्धिकन्धरा ॥ ५८॥
पुरत्रयेशी पुरकृत् षष्ठी च परदेवता ।
विघ्नदूरी भूरिगुणा पुष्टिः पूजितकामधुक् ॥ ५९॥
हेरम्बमाता गणपा गुहाम्बाऽऽर्या नितम्बिनी ।
एषा सीमन्तिनी मोक्षदक्षा दीक्षितमातृका ॥ ६०॥
साधकाम्बा सिद्धमाता साधकेन्द्रमनोरमा ।
यौवनोन्मादिनी तुङ्गस्तनी सुश्रोणिमण्डिता ॥ ६१॥
पद्मरक्तोत्पलवती रक्तमाल्यानुलेपना ।
रक्तमाल्यरुचिर्दक्षा शिखण्डिन्यतिसुन्दरी ॥ ६२॥
शिखण्डिनृत्यसन्तुष्टा शिखण्डिकुलपालिनी ।
वसुन्धरा च सुरभिः कमनीयतनुश्शुभा ॥ ६३॥
नन्दिनी त्रीक्षणवती वसिष्ठालयदेवता ।
गोलकेशी च लोकेन्द्रा नृलोकपरिपालिका ॥ ६४॥
हविर्धात्री देवमाता वृन्दारकपरात्मयुक् ।
रुद्रमाता रुद्रपत्नी मदोद्गारभरा क्षितिः ॥ ६५॥
दक्षिणा यज्ञसम्पत्तिः स्वबला धीरनन्दिता ।
क्षीरपूर्णार्णवगतिः सुधायोनिः सुलोचना ॥ ६६॥
रमा तुङ्गा सदासेव्या सुरसङ्घदया उमा ।
सुचरित्रा चित्रवरा सुस्तनी वत्सवत्सला ॥ ६७॥
रजस्वला रजोयुक्ता रञ्जिता रङ्गमालिका ।
रक्तप्रिया सुरक्ता च रतिरङ्गस्वरूपिणी ॥ ६८॥
रजश्शुक्लाक्षिका निष्ठा ऋतुस्नाता रतिप्रिया ।
भाव्यभाव्या कामकेलिः स्मरभूः स्मरजीविका ॥ ६९॥
समाधिकुसुमानन्दा स्वयम्भुकुसुमप्रिया ।
स्वयम्भुप्रेमसन्तुष्टा स्वयम्भूनिन्दकान्तका ॥ ७०॥
स्वयम्भुस्था शक्तिपुटा रविः सर्वस्वपेटिका ।
अत्यन्तरसिका दूतिः विदग्धा प्रीतिपूजिता ॥ ७१॥
तूलिकायन्त्रनिलया योगपीठनिवासिनी ।
सुलक्षणा दृश्यरूपा सर्व लक्षणलक्षिता ॥ ७२॥
नानालङ्कारसुभगा पञ्चकामशरार्चिता ।
ऊर्ध्वत्रिकोणयन्त्रस्था बाला कामेश्वरी तथा ॥ ७३॥
गुणाध्यक्षा कुलाध्यक्षा लक्ष्मीश्चैव सरस्वती ।
वसन्तमदनोत्तुङ्ग स्तनी कुचभरोन्नता ॥ ७४॥
कलाधरमुखी मूर्धपाथोधिश्च कलावती ।
दक्षपादादिशीर्षान्तषोडशस्वरसंयुता ॥ ७५॥
श्रद्धा पूर्तिः रतिश्चैव भूतिः कान्तिर्मनोरमा ।
विमला योगिनी घोरा मदनोन्मादिनी मदा ॥ ७६॥
मोदिनी दीपिनी चैव शोषिणी च वशङ्करी ।
रजन्यन्ता कामकला लसत्कमलधारिणी ॥ ७७॥
वाममूर्धादिपादान्तषोडशस्वरसंयुता ।
पूषरूपा सुमनसां सेव्या प्रीतिः द्युतिस्तथा ॥ ७८॥
ऋद्धिः सौदामिनी चिच्च हंसमालावृता तथा ।
शशिनी चैव च स्वस्था सम्पूर्णमण्डलोदया ॥ ७९॥
पुष्टिश्चामृतपूर्णा च भगमालास्वरूपिणी ।
भगयन्त्राश्रया शम्भुरूपा संयोगयोगिनी ॥ ८०॥
द्राविणी बीजरूपा च ह्यक्षुब्धा साधकप्रिया ।
रजः पीठमयी नाद्या सुखदा वाञ्छितप्रदा ॥ ८१॥
रजस्सवित् रजश्शक्तिः शुक्लबिन्दुस्वरूपिणी ।
सर्वसाक्षी सामरस्या शिवशक्तिमयी प्रभा ॥ ८२॥
संयोगानन्दनिलया संयोगप्रीतिमातृका ।
संयोगकुसुमानन्दा संयोगयोगपद्धतिः ॥ ८३॥
संयोगसुखदावस्था चिदानन्दार्ध्यसेविता ।
अर्घ्यपूज्या च सम्पत्तिः अर्ध्यदाभिन्नरूपिणी ॥ ८४॥
सामरस्यपरा प्रीता प्रियसङ्गमरङ्गिणी ।
ज्ञानदूती ज्ञानगम्या ज्ञानयोनिश्शिवालया ॥ ८५॥
चित्कला सत्कला ज्ञानकला संवित्कलात्मिका ।
कलाचतुष्टयी पद्मवासिनी सूक्ष्मरूपिणी ॥ ८६॥
हंसकेलिस्थलस्वस्था हंसद्वयविकासिनी ।
विरागिता मोक्षकला परमात्मकलावती ॥ ८७॥
विद्याकलान्तरात्मस्था चतुष्टयकलावती ।
विद्यासन्तोषणा तृप्ति परब्रह्मप्रकाशिनी ॥ ८८॥
परमात्मपरा वस्तुलीना शक्तिचतुष्टयी ।
शान्तिर्बोधकला व्याप्तिः परज्ञानात्मिका कला ॥ ८९॥
पश्यन्ती परमात्मस्था चान्तरात्मकला शिवा ।
मध्यमा वैखरी चात्म कलाऽऽनन्दकलावती ॥ ९०॥
तरुणी तारका तारा शिवलिङ्गालयात्मवित् ।
परस्परस्वभावा च ब्रह्मज्ञानविनोदिनी ॥ ९१॥
रामोल्लासा च दुर्धर्षा परमार्घ्यप्रिया रमा ।
जात्यादिरहिता योगिन्यानन्दमात्रपद्धतिः ॥ ९२॥
कान्ता शान्ता दान्तयातिः कलिता होमपद्धतिः ।
दिव्यभावप्रदा दिव्या वीरसूर्वीरभावदा ॥ ९३॥
पशुदेहा वीरगतिः वीरहंसमनोदया ।
मूर्धाभिषिक्ता राजश्रीः क्षत्रियोत्तममातृका ॥ ९४॥
शस्त्रास्त्रकुशला शोभा रथस्था युद्धजीविका ।
अश्वारूढा गजारूढा भूतोक्तिः सुरसुश्रया ॥ ९५॥
राजनीतिश्शान्तिकर्त्री चतुरङ्गबलाश्रया ।
पोषिणी शरणा पद्मपालिका जयपालिका ॥ ९६॥
विजया योगिनी यात्रा परसैन्यविमर्दिनी ।
पूर्णवित्ता वित्तगम्या वित्तसञ्चय शालिनी ॥ ९७॥
महेशी राज्यभोगा च गणिकागणभोगभृत् ।
उकारिणी रमा योग्या मन्दसेव्या पदात्मिका ॥
सैन्यश्रेणी शौर्यरता पताकाध्वजमालिनी ।
सुच्छत्र चामरश्रेणिः युवराजविवर्धिनी ॥ ९९॥
पूजा सर्वस्वसम्भारा पूजापालनलालसा ।
पूजाभिपूजनीया च राजकार्यपरायणा ॥ १००॥
ब्रह्मक्षत्रमयी सोमसूर्यवह्निस्वरूपिणी ।
पौरोहित्यप्रिया साध्वी ब्रह्माणी यन्त्रसन्ततिः ॥
सोमपानजनाप्रीता योजनाध्वगतिक्षमा ।
प्रीतिग्रहा परा दात्री श्रेष्ठजातिः सताङ्गतिः ॥ १०२॥
गायत्री वेदविद्ध्येया दीक्षा सन्तोषतर्पणा ।
रत्नदीधितिविद्युत्सहसना वैश्यजीविका ॥ १०३॥
कृषिर्वाणिज्यभूतिश्च वृद्धिदा वृद्धसेविता ।
तुलाधारा स्वप्नकामा मानोन्मानपरायणा ॥ १०४॥
श्रद्धा विप्रगतिः कर्मकरी कौतुकपूजिता ।
नानाभिचारचतुरा वारस्त्रीश्रीः कलामयी ॥
सुकर्णधारा नौपारा सर्वाशा रतिमोहिनी ।
दुर्गा विन्ध्यवनस्था च कालदर्पनिषूदिनी ॥
भूमारशमनी कृष्णा रक्षोराक्षससाहसा ।
विविधोत्पातशमनी समया सुरसेविता ॥ १०७॥
पञ्चावयववाक्यश्रीः प्रपञ्चोद्यानचन्द्रिका ।
सिद्धिसन्दोहसंसिद्धयोगिनीवृन्दसेविता ॥ १०८॥
नित्या षोडशिकारूपा कामेशी भगमालिनी ।
नित्यक्लिन्ना निराधारा वह्निमण्डलवासिनी ॥ १०९॥
महावज्रेश्वरी नित्यशिवदूतीति विश्रुता ।
त्वरिता प्रथिता ख्याता विख्याता कुलसुन्दरी ॥ ११०॥
नित्या नीलपताका च विजया सर्वमङ्गला ।
ज्वालामाला विचित्रा च महात्रिपुरसुन्दरी ॥ १११॥
गुरुवृन्दा परगुरुः प्रकाशानन्ददायिनी ।
शिवानन्दा नादरूपा शक्रानन्दस्वरूपिणी ॥ ११२॥
देव्यानन्दा नादमयी कौलेशानन्दनाथिनी ।
शुक्लदेव्यानन्दनाथा कुलेशानन्ददायिनी ॥ ११३॥
दिव्यौघसेविता दिव्यभोगदानपरायणा ।
क्रीडानन्दा क्रीडमाना समयानन्ददायिनी ॥ ११४॥
वेदानन्दा पार्वती च सहजानन्ददायिनी ।
सिद्धौघगुरुरूपा चाप्यपरा गुरुरूपिणी ॥ ११५॥
गगनानन्दनाथा च विश्वाद्यानन्ददायिनी ।
विमलानन्दनाथा च मदनानन्ददायिनी ॥ ११६॥
भुवनानन्दनाथा च लीलोद्यानप्रिया गतिः ।
स्वात्मान्दविनोदा च प्रियाद्यानन्दनाथिनी ॥ ११७॥
मानवाद्या गुरुश्रेष्ठा परमेष्ठि गुरुप्रभा ।
परमाद्या गुरुश्शक्तिः किर्तनप्रिया ॥ ११८॥
त्रैलोक्यमोहनाख्या च सर्वाशापरिपूरका ।
सर्वसङ्क्षोभिणी पूर्वाम्नाया चक्रत्रयालया ॥ ११९॥
सर्वसौभाग्यदात्री च सर्वार्थसाधकप्रिया ।
सर्वरक्षाकरी साधुर्दक्षिणाम्नायदेवता ॥ १२०॥
मध्यचक्रैकनिलया पश्चिमाम्नायदेवता ।
नवचक्रकृतावासा कौबेराम्नायदेवता ॥ १२१॥
बिन्दुचक्रकृतायासा मध्यसिंहासनेश्वरी ।
श्रीविद्या नवदुर्गा च महिषासुरमर्दिनी ॥ १२२॥
सर्वसाम्राज्यलक्ष्मीश्च अष्टलक्ष्मीश्च संश्रुता ।
शैलेन्द्रतनया ज्योतिः निष्कला शाम्भवी उमा ॥ १२३॥
अजपा मातृका चेति शुक्लवर्णा षडानना ।
पारिजातेश्वरी चैव त्रिकूटा पञ्चबाणदा ॥ ११४॥
पञ्चकल्पलता चैव त्र्यक्षरी मूलपीठिका ।
सुधाश्रीरमृतेशानी ह्यन्नपूर्णा च कामधुक् ॥ १२५॥
पाशहस्ता सिद्धलक्ष्मीः मातङ्गी भुवनेश्वरी ।
वाराही नवरत्नानामीश्वरी च प्रकीर्तिदा ॥ १२६॥
परं ज्योतिः कोशरूपा सैन्धवी शिवदर्शना ।
परापरा स्वामिनी च शाक्तदर्शनविश्रुता ॥ १२७॥
ब्रह्मदर्शनरूपा च शिवदर्शनरूपिणी ।
विष्णुदर्शनरूपा च स्रष्टॄदर्शनरूपिणी ॥ १२८॥
सौरदर्शनरूपा च स्थितिचक्रकृताश्रया ।
बौद्धदर्शनरूपा च तुरीया बहुरूपिणी ॥ १२९॥
तत्त्वमुद्रास्वरूपा च प्रसन्ना ज्ञानमातृका ।
सर्वोपचारसन्तुष्टा हृन्मयी शीर्षदेवता ॥ १३०॥
शिखास्थिता वर्ममयी नेत्रत्रयविलासिनी ।
अस्त्रस्था चतुरस्रस्था द्वारस्था द्वारदेवता ॥ १३१॥
अणिमा पश्चिमस्था च दक्षिणद्वारदेवता ।
वशित्वा वायुकोणस्था प्राकाम्येशानदेवता ॥ १३२॥
महिमापूर्वनाथा च लघिमोत्तरदेवता ।
अग्निकोणस्थगरिमा प्राप्तिर्नैरृतिवासिनी ॥ १३३॥
ईशित्वसिद्धिसुरथा सर्वकामोर्ध्ववासिनी ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥ १३४॥
वाराह्यैन्द्री च चामुण्डा वामा ज्येष्ठा सरस्वती ।
क्षोभिणी द्राविणी रौद्री काल्युन्मादनकारिणी ॥ १३५॥
खेचरा कालकरणी च बलानां विकरणी तथा ।
मनोन्मनी सर्वभूतदमनी सर्वसिद्धिदा ॥ १३६॥
बलप्रमथिनी शक्तिः बुद्ध्याकर्षणरूपिणी ।
अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी ॥ १३७॥
स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी ।
रसाकर्षणरूपा च प्लधाकर्षणरूपिणी ॥ १३८॥
चित्राकर्षणरूपा च धैर्याकर्षणरूपिणी ।
स्मृत्याकर्षणरूपा च नामाकर्षणस्त्वपिणी ॥ १३९॥
बीजाकर्षणरूपा च ह्यात्माकर्षणरूपिणी ।
अमृताकर्षिणी चैव शरीराकर्षणी तथा ॥ १४०॥
षोडशस्वरसम्पन्ना स्रवत्पीयूषमण्डिता ।
त्रिपुरेशी सिद्धिदात्री कलादर्शनवासिनी ॥ १४१॥
सर्वसङ्क्षोभचक्रेशी शक्तिर्गुह्यतराभिधा ।
अनङ्गकुसुमाशक्तिः तथैवानङ्गमेखला ॥ १४२॥
अनङ्गमदनाऽनङ्गमदनातुररूपिणी ।
अनङ्गरेखा चानङ्गवेगानङ्गाकुशाभिधा ॥ १४३॥
अनङ्गमालिनी चैव ह्यष्टवर्गाधिगामिनी ।
वस्वष्टककृतावासा श्रीमत्त्रिपुरसुन्दरी ॥ १४४॥
सर्वसाम्राज्यसुभगा सर्वभाग्यप्रदेश्वरी ।
सम्प्रदायेश्वरी सर्वसङ्क्षोभणकरी तथा ॥ १४५॥
सर्वविद्रावणी सर्वाकर्षिणीरूपकारिणी ।
सर्वाह्लादनशक्तिश्च सर्वसम्मोहिनी तथा ॥ १४६॥
सर्वस्तम्भनशक्तिश्च सर्वजृम्भणकारिणी ।
सर्ववश्यकशक्तिश्च तथा सर्वानुरञ्जनी ॥ १४७॥
सर्वोन्मादनशक्तिश्च तथा सर्वार्थसाधिका ।
सर्वसम्पत्तिदा चैव सर्वमातृमयी तथा ॥ १४८॥
सर्वद्वन्द्वक्षयकरी सिद्धिस्त्रिपुरवसिनी ।
चतुर्दशारचक्रेशी कुलयोगसमन्वया ॥ १४९॥
सर्वसिद्धिप्रदा चैव सर्वसम्पत्प्रदा तथा ।
सर्वप्रियकरी चैव सर्वमङ्गलकारिणी ॥ १५०॥
सर्वकामप्रपूर्णा च सर्वदुःखविमोचिनी ।
सर्वमृत्युप्रशमनी सर्व विघ्नविनाशिनी ॥ १५१॥
सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी ।
त्रिपुरा श्रीश्च सर्वार्थसाधिका दशकोणगा ॥ १५॥
सर्वरक्षाकरी चैव ईश्वरी योगिनी तथा ।
सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ १५३॥
सर्वज्ञानमयी चैव सर्वव्याधिविनाशिनी ।
सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ १५४॥
सर्वानन्दमयी चैव सर्वरक्षास्वरूपिणी ।
तथैव च महाशक्तिः सर्वेप्सितफलप्रदा ॥ १५५॥
अन्तर्दशारचक्रस्था तथा त्रिपुरमालिनी ।
सर्वरोगहरा चैव रहस्ययोगिनी तथा ॥ १५६॥
वाग्देवी वशिनी चैव तथा कामेश्वरी तथा ।
मोदिनी विमला चैव ह्यरुणा जयिनी तथा ॥ १५॥
शिवकामप्रदा देवी शिवकामस्य सुन्दरी ।
ललिता ललिताध्यानफलदा शुभकारिणी ॥ १५॥
सर्वेश्वरी कौलिनी च वसुवंशाभिवर्द्धिनी ।
सर्वकामप्रदा चैव परापररहस्यवित् ॥ १५९॥
त्रिकोणचतुरश्रस्थ कामेश्वर्यायुधात्मिका ।
कामेश्वरीबाणरूपा कामेशी चापरूपिणी ॥ १६०॥
कामेशी पाशहस्ता च कामेश्यङ्कुशरूपिणी ।
कामेश्वरी रुद्रशक्तिः अग्निचक्रकृतालया ॥ १६१॥
कामाभिन्त्रा कामदोग्ध्री कामदा च त्रिकोणगा ।
दक्षकोणेश्वरी विष्णुशक्तिर्जालन्धरालया ॥ १६२॥
सूर्यचक्रालया वामकोणगा सोमचक्रगा ।
भगमाला बृहच्छक्ति पूर्णा पूर्वास्ररागिणी ॥ १६३॥
श्रीमत्त्रिकोणभुवना त्रिपुराख्या महेश्वरी ।
सर्वानन्दमयीशानी बिन्दुगातिरहस्यगा ॥ १६४॥
परब्रह्मस्वरूपा च महात्रिपुरसुन्दरी ।
सर्वचक्रान्तरस्था च सर्वचक्राधिदेवता ॥ १६५॥
सर्वचक्रेश्वरी सर्वमन्त्राणामीश्वरी तथा ।
सर्वविद्येश्वरी चैव सर्ववागीश्वरी तथा ॥ १६६॥
सर्वयोगेश्वरी सर्वपीठेश्वर्यखिलेश्वरी ।
सर्वकामेश्वरी सर्वतत्वेश्वर्यागमेश्वरी ॥ १६७॥
शक्तिः शक्तिभृदुल्लासा निर्द्वन्द्वाद्वैतगर्भिणी ।
निष्प्रपञ्चा प्रपञ्चाभा महामाया प्रपञ्चसूः ॥ १६८॥
सर्वविश्वोत्पत्तिधात्री परमानन्दकारणा ।
लावण्यसिन्धुलहरी सुन्दरीतोषमन्दिरा ॥ १६९॥
शिवकामसुन्दरी देवी सर्वमङ्गलदायिनी ।
इतिनाम्नां सहस्रं च गदितं इष्टदायकम् ॥ १७०॥
॥ उत्तरपीतिका ॥
सहस्रनाम मन्त्राणां सारमाकृष्य पार्वति ।
रचितं हि मया चैतत् सिद्धिदं परमोक्षदम् ॥ १॥
अनेन स्तुवतो नित्यं अर्धरात्रे निशामुखे ।
प्रातः काले च पूजायां पठनं सर्वकामदम् ॥ २॥
सर्वसाम्राज्यसुखदा सुन्दरी परितुष्यति ।
रत्नानि विविधान्यस्य वित्तानि प्रचुराणि च ॥ ३॥
मनोरथरथस्थानि ददाति परमेश्वरी ।
पुत्रपौत्राश्च वर्धन्ते सन्ततिस्सार्वकालिका ॥ ४॥
शत्रवस्तस्य नश्यन्ति वर्धन्ते च बलानि च ।
व्याधयस्तस्य नश्यन्ति लभते चौषधानि च ॥ ५॥
मन्दिराणि विचित्राणि राजन्ते तस्य सर्वदा ।
कृषिः फलवती तस्य भूमिः कामाखिलप्रदा ॥ ६॥
स्थिरं जनपदं तस्य राज्यं तस्य निरङ्गुशम् ।
मातङ्गास्तुरगास्तुङ्गाः सिञ्चिन्तो मदवारिभिः ॥ ७॥
सैनिकाश्च विराजन्ते तुष्टाः पुष्टास्तुरङ्गमाः ।
पूजाः शश्वत् विवर्धन्ते निर्विवादाश्च मन्त्रिणः ॥ ८॥
ज्ञातयस्तस्य तुष्यन्ति बान्धवाः विगतज्वराः ।
भृत्यास्तस्य वशे नित्यं वर्तन्तेऽस्य मनोनुगाः ॥ ९॥
गद्यपद्यमयी वाणी वाक्त्वातुर्यसुसम्भृता ।
समग्र सुखसम्पत्ति शालिनी लास्यमालिनी ॥ १०॥
नानापदमयी वाणी तस्य गङ्गाप्रवाहवत् ।
अदृष्टान्यपि च शास्त्राणि प्रकाशन्ते निरन्तरम् ॥ ११॥
निग्रहः परवाक्यानां सभायां तस्य जायते ।
स्तुवन्ति कृतिनस्तं वै राजानो दासवत्तथा ॥ १२॥
शस्त्राण्यस्त्राणि तद्गात्रे जनयन्ति रुजो नहि ।
मातङ्गाः तस्य वशगाः सर्पवर्या भवन्ति च ॥ १३॥
विषं निर्विषतां याति पानीयममृतं भवेत् ।
परसेनास्तम्भनं च प्रतिवादिविजृम्भणम् ॥ १४॥
नवरात्रेण जायन्ते सततन्यासयोगतः ।
अहोरात्रं पठेद्यस्तु स्तोत्रं संयतमानसः ॥ १५॥
वशाः तस्योपजायन्ते सर्वे लोकाः सुनिश्चितम् ।
षण्मासाभ्यासयोगेन देवा यक्षाश्च किन्नराः ॥ १६॥
सिद्धा महोरगास्सर्वे वशमायान्ति निश्चयम् ।
नित्यं कामकलां न्यस्यन् यः पतेत् स्तोत्रमुत्तमम् ॥ १७॥
मदनोन्मादिनी लीलापुरस्त्री तद्वशानुगा ।
लावण्यमदना साक्षात् विदग्धमुखचन्द्रिका ॥ १८॥
प्रेमपूर्णाश्रुनयना सुन्दरी वशगा भवेत् ।
भूर्जपत्रे रोचनेन कुङ्कुमेन वरानने ॥ १९॥
धातुरागेण वा देवी मूलमन्त्रं विलिख्य च ।
रक्षार्थं भस्म विन्यस्य पुटीकृत्य समन्त्रकम् ॥ २०॥
सुवर्णरौप्यखचिते सुषिरे स्थाप्य यत्नतः ।
सम्पूज्य तत्र देवेशीं पुनरादाय भक्तितः ॥ २१॥
धारयेन्मस्तके कण्ठे बाहुमूले तथा हृदि ।
नाभौ च विद्युतं धन्यं जयदं सर्वकामदम् ॥ २२॥
रक्षाकरं नान्यदस्मात् विद्यते भुवनत्रये ।
ज्वररोगनृपाविष्टभयहृत् भूतिवर्धनम् ॥ २३॥
बलवीर्यकरं चाथ भूतशत्रुविनाशनम् ।
पुत्रपौत्रगुणश्रेयोवर्धकं धनधान्यकृत् ॥ २४॥
य इदं पठति स्तोत्रं स सर्वं लभते नरः ।
यद्गृहे लिखितं स्तोत्रं तिष्ठेदेतद् वरानने ॥ २५॥
तत्र तिष्ठाम्यहं नित्यं हरिश्च कमलासनः ।
वसन्ति सर्वतीर्थानि गौरी लक्ष्मीस्सरस्वती ॥ २६॥
शिवकामेश्वरीं ध्यात्वा पठेन्नामसहस्रकम् ।
असकृत् ध्यानपाठेन साधकः सिद्धिमाप्नुयात् ॥ २७॥
शुक्रवारे पौर्णमास्यां पठन्नामसहस्रकम् ।
पूजां यः कुरुते भक्त्या वाञ्छितं लभते ध्रुवम् ॥ २८॥
शिवकामेश्वरीमन्त्रः मन्त्रराजः प्रकीर्तितः ।
तदभ्यासात्साधकश्च सिद्धिमाप्नोत्यनुत्तमाम् ॥ २९॥
नासाधकाय दातव्यमश्रद्धाय शठाय च ।
भक्तिहीनाय मलिने गुरुनिन्दापराय च ॥ ३०॥
अलसायायत्नवतेऽशिवभक्ताय सुन्दरि ।
विष्णुभक्तिविहीनाय न दातव्यं कदाचन ॥ ३१॥
देयं भक्तवरायैतत्भुक्तिमुक्यिकरं शुभम् ।
सिद्धिदं भवरोगघ्नं स्तोत्रमेतद्वरानने ॥ ३२॥
लतायोगे पठेद्यस्तु तस्य क्षिप्रं फलं भवेत् ।
सैव कल्पलता तस्य वाञ्छाफलकरी स्मृता ॥ ३३॥
पुष्पितां यां लतां सम्यक् दृष्ट्वा श्रीललितां स्मरन् ।
अक्षुब्धः प्रपठेद्यस्तु स यज्ञक्रतुपुण्यभाक् ॥ ३४॥
विकल्परहितो यो हि निर्विकल्पः स्वयं शिवः ।
नैतत्प्रकाशयेद्भक्तः कुशिष्यायाल्पमेधसे ॥ ३५॥
अनेकजन्मपुण्येन दीक्षितो जायते नरः ।
तत्राप्यनेकभाग्येन शैवो विष्णु परायणः ॥ ३६॥
तत्राप्यनेकपुण्येन शक्तिभावः प्रजायते ।
महोदयेन तत्रापि सुन्दरीभावभाग्भवेत् ॥ ३७॥
सहस्रनाम्नां तत्रापि कीर्तनं च सुदुर्लभम् ।
यत्र जन्मनि सा नित्यं पूर्वपुण्यवशाद्भवेत् ॥ ३८॥
जीवन्मुक्तो भवेत्तस्य कर्तव्यं नावशिष्यते ।
अवधूतत्वमेव स्यात् न वर्णाश्रमकल्पना ॥ ३९॥
ब्रह्मादयोऽपि देवेशीं प्रार्थयन्ते तदव्ययाम् ।
हंसत्वं भक्तिभावेन परमानन्दकारणम् ॥ ४०॥
देवोऽसौ सर्वदा शक्ति भावयन्नेव संस्थितः ।
स्वयं शिवस्तु विज्ञेयः सुन्दरीभावलम्पटः ॥ ४१॥
ब्रह्मानन्दमयीं ज्योत्स्नां सदाशिवपरायणाम् ।
शिवकामेश्वरीं देवीं भावयन् सिद्धिमाप्नुयात् ॥ ४२॥
आह्लादः सुन्दरीध्यानात् सुन्दरीनामकीर्तनात् ।
सुन्दरीदर्शनाच्चैव सदानन्दः प्रजायते ॥ ४३॥
॥ इति श्रीरुद्रयामले उमामहेशसंवादे श्रीशिवकामसुन्दर्याः
श्रीमत्त्रिपुरसुन्दर्याः षोडशार्णायाः तुरीयसहस्रनामस्तोत्रं
सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now