Shiva

श्रीशिवपुराम्बाष्टकम्

Shivapurambashtakam Sanskrit

Shiva ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीशिवपुराम्बाष्टकम् ||

भगवति निरपाये भव्यलावण्यकाये
दुत नतजनमाये वेदशीर्षादिगेये ।
शुभगुणसमुदाये मामवाद्याप्रमेये
नमदरिसमवाये श्रीमदात्मेशजाये ॥ १॥

कुलतरवरबाले कुन्दवृक्षान्तमूले
नुतमुनिवरजाले वह्निकासारकूले ।
अरुणरुचिरचेले चित्रकोल्लासिफाले
वरवितरणशीले रक्ष मां योगबाले ॥ २॥

मुखरुचिजितसोमे मुक्तचन्द्राभिरामे
दुरितभरितभूमे भूरिताशेषकामे ।
रतिनुतिकृतकामे रूपलावण्यसीमे
सुमशररिपुवामे पावनास्यात् सदा मे ॥ ३॥

गतिविजितमतङ्गे भक्तलीलानुषङ्गे
कुचमुखजितभृङ्गे मौलिराजत्द्विजाङ्गे ।
कलितगिरिशसङ्गे मुग्धनीलोत्पलाङ्गे (मुक्तनीलोत्पलाङ्गे)
स्मरजनिसतपाङ्गे पाहि कारुण्यतुङ्गे ॥ ४॥

कृतशिवपरितोषां मञ्जुभाषाविशेषां
मणिरुचिपरिवेषां दिव्यमाधुर्यभाषाम् ।
निहतविनतदोषां भक्तरक्षाविशेषां (निहतविनततोषां)
हृदयदुरितमोषां भावये भीमघोषाम् ॥ ५॥

करसरसिजवीणामुद्यदादित्यशोणां
दलितरिपुकृपाणां सिञ्जनीन्यस्तबाणाम् ।
दुरितविततिशाणामुद्वहत्पुष्पबाणां
कलय ! नरसुराणां कामदानप्रवीणाम् ॥ ६॥

भुवनततिजनित्रीं बुद्धिनैर्मल्यधात्रीं (भुवनदधिजनित्रीं)
सकलशुभभवित्रीमागमाल्याः सवित्रीम् ।
शुभगुणसुचरित्रीं नीलजीमूतगात्रीं
सुरमुनिनुतिपात्रीं भावये पद्मनेत्रीम् ॥ ७॥

विषमशरकुलाम्बां विस्तृतोच्चन्नितम्बां
मुखजितविदुबिम्बां विद्रुमाभीष्टबिम्बाम् ।
नतमुनिनिकुरुम्बां तुङ्गवक्षोजकुम्भां
श्रयहृदय ! मदम्बां कुन्दवाटिकदम्बाम् ॥ ८॥

इति शिवपुरदेव्या अष्टकं शिष्टसम्पत्-
प्रदमिदमनुवारं पठेत्भक्तियुक्तः ।
सकलभुवनमाता योगमाता तु तस्य
चरणानलिनभक्तिं भुक्तिमाद्यां ददाति ॥ ९॥

इति श्रीशिवपुराम्बाष्टकं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीशिवपुराम्बाष्टकम् PDF

श्रीशिवपुराम्बाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App