|| श्रीशिवपुराम्बाष्टकम् ||
भगवति निरपाये भव्यलावण्यकाये
दुत नतजनमाये वेदशीर्षादिगेये ।
शुभगुणसमुदाये मामवाद्याप्रमेये
नमदरिसमवाये श्रीमदात्मेशजाये ॥ १॥
कुलतरवरबाले कुन्दवृक्षान्तमूले
नुतमुनिवरजाले वह्निकासारकूले ।
अरुणरुचिरचेले चित्रकोल्लासिफाले
वरवितरणशीले रक्ष मां योगबाले ॥ २॥
मुखरुचिजितसोमे मुक्तचन्द्राभिरामे
दुरितभरितभूमे भूरिताशेषकामे ।
रतिनुतिकृतकामे रूपलावण्यसीमे
सुमशररिपुवामे पावनास्यात् सदा मे ॥ ३॥
गतिविजितमतङ्गे भक्तलीलानुषङ्गे
कुचमुखजितभृङ्गे मौलिराजत्द्विजाङ्गे ।
कलितगिरिशसङ्गे मुग्धनीलोत्पलाङ्गे (मुक्तनीलोत्पलाङ्गे)
स्मरजनिसतपाङ्गे पाहि कारुण्यतुङ्गे ॥ ४॥
कृतशिवपरितोषां मञ्जुभाषाविशेषां
मणिरुचिपरिवेषां दिव्यमाधुर्यभाषाम् ।
निहतविनतदोषां भक्तरक्षाविशेषां (निहतविनततोषां)
हृदयदुरितमोषां भावये भीमघोषाम् ॥ ५॥
करसरसिजवीणामुद्यदादित्यशोणां
दलितरिपुकृपाणां सिञ्जनीन्यस्तबाणाम् ।
दुरितविततिशाणामुद्वहत्पुष्पबाणां
कलय ! नरसुराणां कामदानप्रवीणाम् ॥ ६॥
भुवनततिजनित्रीं बुद्धिनैर्मल्यधात्रीं (भुवनदधिजनित्रीं)
सकलशुभभवित्रीमागमाल्याः सवित्रीम् ।
शुभगुणसुचरित्रीं नीलजीमूतगात्रीं
सुरमुनिनुतिपात्रीं भावये पद्मनेत्रीम् ॥ ७॥
विषमशरकुलाम्बां विस्तृतोच्चन्नितम्बां
मुखजितविदुबिम्बां विद्रुमाभीष्टबिम्बाम् ।
नतमुनिनिकुरुम्बां तुङ्गवक्षोजकुम्भां
श्रयहृदय ! मदम्बां कुन्दवाटिकदम्बाम् ॥ ८॥
इति शिवपुरदेव्या अष्टकं शिष्टसम्पत्-
प्रदमिदमनुवारं पठेत्भक्तियुक्तः ।
सकलभुवनमाता योगमाता तु तस्य
चरणानलिनभक्तिं भुक्तिमाद्यां ददाति ॥ ९॥
इति श्रीशिवपुराम्बाष्टकं सम्पूर्णम् ।
Read in More Languages:- odiaବିଲ୍ଵାଷ୍ଟକମ୍
- gujaratiબિલ્વાષ્ટકમ્
- hindiपार्वतीवल्लभ नीलकण्ठाष्टकम्
- sanskritश्री हाटकेश्वराष्टकम्
- hindiश्री चंद्रशेखर अष्टकम
- kannadaಚಂದ್ರಶೇಖರಾಷ್ಟಕಂ
- tamilஶ்ரீ சந்த்ரஶேகராஷ்டகம்
- englishShri Chandrasekhara Ashtakam
- teluguచంద్రశేఖర్ అష్టకం
- teluguరుద్రాష్టకం
- kannadaಶ್ರೀ ರುದ್ರಾಷ್ಟಕಂ
- tamilஶ்ரீ ருத்³ராஷ்டகம்
- teluguశ్రీ వైద్యనాథ అష్టకమ
- englishShri Vaidyanathaashtakam
- sanskritश्री वैद्यनाथष्टकम्
Found a Mistake or Error? Report it Now