श्री गणेशाष्टक स्तोत्र PDF हिन्दी
Download PDF of Shri Ganeshashtak Stotra Hindi
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
श्री गणेशाष्टक स्तोत्र हिन्दी Lyrics
॥ श्री गणेशाष्टक स्तोत्र ॥
यतोऽनन्तशक्तेरनन्ताश्च जीवा यतो
निर्गुणादप्रमेया गुणास्ते।
यतो भाति सर्वं त्रिधा भेदभिन्नं
सदा तं गणेशं नमामो भजामः॥
यतश्चाविरासीज्जगत्सर्वमेतत्तथाब्जासनो
विश्वगो विश्वगोप्ता।
तथेन्द्रादयो देवसङ्घा मनुष्याः
सदा तं गणेशं नमामो भजामः॥
यतो वह्निभानूद्भवो भूर्जलं च
यतः सागराश्चन्द्रमा व्योम वायुः।
यतः स्थावरा जङ्गमा वृक्षसङ्घाः
सदा तं गणेशं नमामो भजामः॥
यतो दानवाः किंनरा यक्षसङ्घा
यतश्चारणा वारणाः श्वापदाश्च।
यतः पक्षिकीटा यतो वीरुधश्च
सदा तं गणेशं नमामो भजामः॥
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतः
सम्पदो भक्तसन्तोषिकाः स्युः।
यतो विघ्ननाशो यतः कार्यसिद्धिः
सदा तं गणेशं नमामो भजामः॥
यतः पुत्रसम्पद् यतो वाञ्छितार्थो
यतोऽभक्तविघ्नास्तथानेकरूपाः।
यतः शोक मोहौ यतः काम एव
सदा तं गणेशं नमामो भजामः॥
यतोऽनन्तशक्तिः स शेषो बभूव
धराधारणेऽनेकरूपे च शक्तः।
यतोऽनेकधा स्वर्गलोका हि नाना
सदा तं गणेशं नमामो भजामः॥
यतो वेदवाचो विकुण्ठा मनोभिः
सदा नेति नेतीति यत्ता गृणन्ति।
परब्रह्मरूपं चिदानन्दभूतं
सदा तं गणेशं नमामो भजामः॥
| श्री गणेश उवाच |
पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नर:।
त्रिसंध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति॥
यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम्।
अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धिरवानप्नुयात्॥
यः पठेन्मासमात्रं तु दशवारं दिने दिने।
स मोचयेद्वन्धगतं राजवध्यं न संशयः॥
विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात्।
वाञ्छितांल्लभते सर्वानेकविंशतिवारतः॥
यो जपेत् परया भक्त्या गजाननपरो नरः।
एवमुक्तवा ततो देवश्चान्तर्धानं गतः प्रभुः॥
॥ इति श्रीगणेशपुराणे उपासनाखण्डे
श्रीगणेशाष्टकं सम्पूर्णम्॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री गणेशाष्टक स्तोत्र

READ
श्री गणेशाष्टक स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
