Download HinduNidhi App
Misc

श्री विश्वनाथाष्टकम् स्तोत्रम्

Shri Vishwanathashtakam Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

॥ श्री विश्वनाथाष्टकम् स्तोत्र ॥

गङ्गातरङ्गरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम्।
नारायणप्रियमनंगमदा पहारं
वाराणसीपुरपतिं भज विश्वनाथम्॥

वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णु सुरसेवितपादपीठम्।
वामेन विग्रहवरेण कलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम्॥

भूताधिपं भुजगभूषणभूषिताङ्गं,
व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।
पाशाङ्कुशाभयवर प्रदशूलपाणिं,
वाराणसीपुरपतिं भज विश्वनाथम्॥

शीतांशुशोभितकिरीटविराजमानं,
भाक्षणानल-विशोषितपञ्चवाणम्।
नागाधिपा रचितभासुरकर्णपूरं,
वाराणसीपुरपतिं भज विश्वनाथम्॥

पञ्चानन्दुरितमत्तमतंगजानां,
नागान्तकं दनुजपुंगवपन्नगानाम्।
दावानलं मरणशोकजराटवीनां,
वाराणसीपुरपतिं भज विश्वनाथम्॥

तेजोमयं सगुणनिर्गुणमद्वितीय,
मानन्दकन्दमपराजितमप्रमेयम्।
नागात्मकं सकलनिष्कलमात्मरूपं,
वाराणसीपुरपतिं भज विश्वनाथम्॥

रागादिदोषरहितं स्वजनानुरागं,
वैराग्यशांतिनिलयं गिरिजासहायम्।
माधुर्यधैर्यसुभगं गरलाभिरामं,
वाराणसीपुरपतिं भज विश्वनाथम्॥

आशां विहाय परिहृत्य परस्य निन्दां,
पापे मतिं च सुनिवार्य मनः समाधौ।
आदाय हृत्कमलमध्यगतं परेशं,
वाराणसीपुरपतिं भज विश्वनाथम्॥

वाराणसीपुरपतेः स्तवनं शिवस्य,
व्याख्यातमष्टकमिदं पठते मनुष्यः।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं,
सम्प्राप्य देहविलये लभते च मोक्षम्॥

विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥

॥इति वेदव्यासकृतं विश्वनाथाष्टकं सम्पूर्णम्॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री विश्वनाथाष्टकम् स्तोत्रम् PDF

श्री विश्वनाथाष्टकम् स्तोत्रम् PDF

Leave a Comment