|| श्रीश्रीनिवासस्तोत्रम् ||
प्रातः स्मरामि रमया सह वेङ्कटेशं
मन्दस्मितं मुखसरोरुह-कान्तिरम्यम् ।
माणिक्य-कान्ति-विलसन्-मुकुटोर्ध्व-पुण्ड्रं
पद्माक्ष-लक्ष-मणि-कुण्डल-मण्डिताङ्गम् ॥ १॥
प्रातर्भजामि कर-रम्य-सु-शङ्खचक्रं
भक्ताभय-प्रद-कटिस्थल-दत्तपाणिम् ।
श्रीवत्स-कौस्तुभ-लसन्-मणिकाञ्चनाढ्यं
पीताम्बरं मदनकोटि-सुमोहनाङ्गम् ॥ २॥
प्रातर्नमामि परमात्म-पदारविन्दं
आनन्द-सान्द्र-निलयं मणिनूपुराढ्यम् ।
एतत्-समस्त-जगतामपि दर्शयन्तं
वैकुण्ठमत्र भजतां करपल्लवेन ॥ ३॥
व्यासराज-यतिप्रोक्तं श्लोकत्रयमिदं शुभम् ।
प्रातःकाले पठेद्यस्तु पापेभ्यो मुच्यते नरः ॥ ४॥
॥ इति श्रीव्यासराजयति-विरचितं श्रीनिवासस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now