
शुक्र कवचम् PDF हिन्दी
Download PDF of Shukra Kavacham Hindi
Misc ✦ Kavach (कवच संग्रह) ✦ हिन्दी
शुक्र कवचम् हिन्दी Lyrics
॥ शुक्र कवचम् ॥
ध्यानम्
मृणालकुन्देन्दुपयोजसुप्रभं
पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महान्तं
ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥
॥ अथ शुक्रकवचम् ॥
शिरो मे भार्गवः पातु
भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु
श्रोत्रे मे चन्दनद्युतिः ॥
पातु मे नासिकां काव्यो
वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु
कण्ठं श्रीकण्ठभक्तिमान् ॥
भुजौ तेजोनिधिः पातु
कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु
मध्यं पातु महीप्रियः ॥
कटिं मे पातु विश्वात्मा
उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु
जङ्घे ज्ञानवतां वरः ॥
गुल्फौ गुणनिधिः पातु
पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु
स्वर्णमालापरिष्कृतः ॥
फलश्रुतिः
य इदं कवचं दिव्यं
पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा
भार्गवस्य प्रसादतः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowशुक्र कवचम्

READ
शुक्र कवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
