Misc

स्फुरत्कृष्णप्रेमामृतस्तोत्रम्

Sphuratkrrishnapremamrrita Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| स्फुरत्कृष्णप्रेमामृतस्तोत्रम् ||

स्फुरत्कृष्णप्रेमामृतरसभरेणातिभरिता
विहारात्कुर्वाणा व्रजपतिविहाराब्धिषु सदा ।
प्रिया गोपीभर्तुः स्फुरतु सततं वल्लभ इति
प्रधावत्यस्माकं हृदि सुभगमूर्तिः सकरुणा ॥ १॥

श्रीभागवतप्रतिपदमणिवरभावांशुभूषिता मूर्तिः ।
श्रीवल्लभाभिधानस्तनोति निजदास्यसौभाग्यम् ॥ २॥

मायावादतमो निरस्य मधुभित्सेवाख्यवर्त्माद्भुतं
श्रीमद्गोकुलनाथसङ्गमसुधासम्प्रापकं तत्क्षणात् ।
दुष्प्रापं प्रकटीचकार करुणारागादिसम्मोहनः
स श्रीवल्लभभानुरुल्लसति यः श्रीवल्लवीशान्तरः ॥ ३॥

क्वचित्पाण्डित्यं चेन्न निगमगतिः सापि यदि न
क्रिया सा सापि स्याद्यदि न हरिमार्गे परिचयः ।
यदि स्यात्सोऽपि श्रीव्रजपतिरतिर्नेति निखिलै-
र्गुणैरन्यः को वा विलससि विना वल्लभवरम् ॥ ४॥

मायावादिकरीन्द्रदर्पदलनेनास्येन्दुराजोद्गत-
श्रीमद्भागवताख्यदुर्लभसुधावर्षेण वेदोक्तिभिः ।
राधावल्लभसेवया तदुचितप्रेम्णोपदेशैरपि
श्रीमद्वल्लभनामधेयसदृशो भावी न भूतोऽस्त्यपि ॥ ५॥

यदङ्घ्रिनखमण्डलप्रसृतवारिपीयूषयुग्-
वराङ्गहृदयैः कलिस्तृणमिवेह तुच्छीकृतः ।
व्रजाधिपतिरिन्दिराप्रभृतिमृग्यपादाम्बुजः
क्षणेन परितोषितस्तदनुगत्वमेवास्तु मे ॥ ६॥

अघौघतमसाऽऽवृतं कलिभुजङ्गमासादितं
जगद्विषयसागरे पतितमस्वधर्मे रतम् ।
यदीक्षणसुधानिधिः समुदितोऽनुकम्पामृता-
दमृत्युमकरोत्क्षणादरणमस्तु मे तत्पदम् ॥ ७॥

इति श्रीविठ्ठलेश्वरविरचितं स्फुरत्कृष्णप्रेमामृतस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download स्फुरत्कृष्णप्रेमामृतस्तोत्रम् PDF

स्फुरत्कृष्णप्रेमामृतस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App