
श्री आञ्जनेय मङ्गलाष्टकम् PDF संस्कृत
Download PDF of Sri Anjaneya Mangala Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री आञ्जनेय मङ्गलाष्टकम् संस्कृत Lyrics
|| श्री आञ्जनेय मङ्गलाष्टकम् ||
गौरीशिववायुवराय अञ्जनिकेसरिसुताय च ।
अग्निपञ्चकजाताय आञ्जनेयाय मङ्गलम् ॥ १ ॥
वैशाखेमासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रप्रभूताय आञ्जनेयाय मङ्गलम् ॥ २ ॥
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय आञ्जनेयाय मङ्गलम् ॥ ३ ॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय आञ्जनेयाय मङ्गलम् ॥ ४ ॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय आञ्जनेयाय मङ्गलम् ॥ ५ ॥
करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय आञ्जनेयाय मङ्गलम् ॥ ६ ॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय आञ्जनेयाय मङ्गलम् ॥ ७ ॥
रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय आञ्जनेयाय मङ्गलम् ॥ ८ ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री आञ्जनेय मङ्गलाष्टकम्

READ
श्री आञ्जनेय मङ्गलाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
