श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम् PDF संस्कृत
Download PDF of Sri Annapurna Ashtottara Satanama Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम् संस्कृत Lyrics
|| श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम् ||
अस्य श्री अन्नपूर्णाष्टोत्तर शतनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः श्री अन्नपूर्णेश्वरी देवता स्वधा बीजं स्वाहा शक्तिः ओं कीलकं मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ओं अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती ।
सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १ ॥
वेदवेद्या महाविद्या विद्यादात्री विशारदा ।
कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २ ॥
भवानी विष्णुजननी ब्रह्मादिजननी तथा ।
गणेशजननी शक्तिः कुमारजननी शुभा ॥ ३ ॥
भोगप्रदा भगवती भक्ताभीष्टप्रदायिनी ।
भवरोगहरा भव्या शुभ्रा परममङ्गला ॥ ४ ॥
भवानी चञ्चला गौरी चारुचन्द्रकलाधरा ।
विशालाक्षी विश्वमाता विश्ववन्द्या विलासिनी ॥ ५ ॥
आर्या कल्याणनिलया रुद्राणी कमलासना ।
शुभप्रदा शुभाऽनन्ता वृत्तपीनपयोधरा ॥ ६ ॥
अम्बा संहारमथनी मृडानी सर्वमङ्गला ।
विष्णुसंसेविता सिद्धा ब्रह्माणी सुरसेविता ॥ ७ ॥
परमानन्ददा शान्तिः परमानन्दरूपिणी ।
परमानन्दजननी परानन्दप्रदायिनी ॥ ८ ॥
परोपकारनिरता परमा भक्तवत्सला ।
पूर्णचन्द्राभवदना पूर्णचन्द्रनिभांशुका ॥ ९ ॥
शुभलक्षणसम्पन्ना शुभानन्दगुणार्णवा ।
शुभसौभाग्यनिलया शुभदा च रतिप्रिया ॥ १० ॥
चण्डिका चण्डमथनी चण्डदर्पनिवारिणी ।
मार्ताण्डनयना साध्वी चन्द्राग्निनयना सती ॥ ११ ॥
पुण्डरीकहरा पूर्णा पुण्यदा पुण्यरूपिणी ।
मायातीता श्रेष्ठमाया श्रेष्ठधर्मात्मवन्दिता ॥ १२ ॥
असृष्टिस्सङ्गरहिता सृष्टिहेतु कपर्दिनी ।
वृषारूढा शूलहस्ता स्थितिसंहारकारिणी ॥ १३ ॥
मन्दस्मिता स्कन्दमाता शुद्धचित्ता मुनिस्तुता ।
महाभगवती दक्षा दक्षाध्वरविनाशिनी ॥ १४ ॥
सर्वार्थदात्री सावित्री सदाशिवकुटुम्बिनी ।
नित्यसुन्दरसर्वाङ्गी सच्चिदानन्दलक्षणा ॥ १५ ॥
नाम्नामष्टोत्तरशतमम्बायाः पुण्यकारणम् ।
सर्वसौभाग्यसिद्ध्यर्थं जपनीयं प्रयत्नतः ॥ १६ ॥
इदं जपाधिकारस्तु प्राणमेव ततस्स्तुतः ।
आवहन्तीति मन्त्रेण प्रत्येकं च यथाक्रमम् ॥ १७ ॥
कर्तव्यं तर्पणं नित्यं पीठमन्त्रेति मूलवत् ।
तत्तन्मन्त्रेतिहोमेति कर्तव्यश्चेति मालवत् ॥ १८ ॥
एतानि दिव्यनामानि श्रुत्वा ध्यात्वा निरन्तरम् ।
स्तुत्वा देवीं च सततं सर्वान्कामानवाप्नुयात् ॥ १९ ॥
इति श्री ब्रह्मोत्तरखण्डे आगमप्रख्यातिशिवरहस्ये अन्नपूर्णाष्टोत्तर शतनामस्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम्

READ
श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
