श्री अय्यप्प षोडशोपचार पूजा – १ PDF संस्कृत
Download PDF of Sri Ayyappa Shodasopachara Puja 1 Sanskrit
Misc ✦ Pooja Vidhi (पूजा विधि) ✦ संस्कृत
श्री अय्यप्प षोडशोपचार पूजा – १ संस्कृत Lyrics
|| श्री अय्यप्प षोडशोपचार पूजा – १ ||
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री पूर्णा पुष्कलाम्बा समेत हरिहरपुत्र अय्यप्प स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं पुरुषसूक्त सहित रुद्रसूक्त विधानेन श्रीहरिहरपुत्र अय्यप्प स्वामिनः प्रीत्यर्थं ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
प्राणप्रतिष्ठ –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ।
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
आवाहितो भव स्थापितो भव ।
सुप्रसन्नो भव वरदो भव ॥
स्वामिन् सर्वजगन्नाथ यावत्पूजाऽवसानकम् ।
तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥
ध्यानम् –
आश्यामकोमल विशालतनुं विचित्र-
-वासोवसानमरुणोत्पल वामहस्तम् ।
उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं
शास्तारमिष्टवरदं शरणं प्रपद्ये ॥
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राभयम् ।
बिभ्राणं करपङ्कजैर्मदगजस्कन्धाधिरूढं विभुं
शास्तारं शरणं व्रजामि सततं त्रैलोक्यसम्मोहनम् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः ध्यायामि ।
आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नम॑: ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नम॑: ॥
भवोद्भवं शिवातीतं भानुकोटिसमप्रभम् ।
आवाहयामि भूतेशं भवानीसुतमुत्तमम् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः आवाहयामि ।
आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ॥
या त॒ इषु॑: शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनु॑: ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ॥
अनेकहारसम्युक्तं नानामणिविराजितम् ।
रत्नसिंहासनं देव प्रीत्यर्थं प्रतिगृह्यताम् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः आसनं समर्पयामि ।
पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥
या ते॑ रुद्र शि॒वा त॒नूरघो॒राऽपा॑पकाशिनी ।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भिचा॑कशीहि ॥
भूतनाथ नमस्तेऽस्तु नरकार्णवतारक ।
पाद्यं गृहाण देवेश मम सौख्यं विवर्धय ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ॥
यामिषुं॑ गिरिशन्त॒ हस्ते॒ बिभ॒र्ष्यस्त॑वे ।
शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिग्ं॑सी॒: पुरु॑षं॒ जग॑त् ॥
ज्येष्ठरूप नमस्तुभ्यं भस्मोद्धूलितविग्रहम् ।
जैत्रयात्रविभूत त्वं गृहाणार्घ्यं मयार्पितम् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि ।
यथा॑ न॒: सर्व॒मिज्जग॑दय॒क्ष्मग्ं सु॒मना॒ अस॑त् ॥
जनार्दनाय देवाय समस्तजगदात्मने ।
निर्मलज्ञानरूपाय गृहाणाचमनं विभो ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः मुखे आचमनं समर्पयामि ।
पञ्चामृत स्नानम् –
ओं श्री हरिहरपुत्राय नमः क्षीरेण स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः दध्येन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः आज्येन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः मधुना स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः इक्षुरसेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः नारिकेल जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः सौगन्धिका जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः कर्पूरिका जलेन स्नपयामि ।
ओं श्री हरिहरपुत्राय नमः गङ्गा जलेन स्नपयामि ।
शुद्धोदक स्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ॥
अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीग्ग्॑श्च॒ सर्वा᳚ञ्ज॒म्भय॒न्त्सर्वा᳚श्च यातुधा॒न्य॑: ॥
तीर्थोदकैः काञ्चनकुम्भसंस्थैः
सुवासितैः देवकृपारसार्द्रैः ।
मयार्पितं स्नानविधिं गृहाण
पादाब्जनिष्ठ्यूतनदीप्रवाहः ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्धाचमनीयं समर्पयामि ।
वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ॥
अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गल॑: ।
ये चे॒माग्ं रु॒द्रा अ॒भितो॑ दि॒क्षु श्रि॒ताः स॑हस्र॒शोऽवै॑षा॒ग्ं॒ हेड॑ ईमहे ॥
विद्युद्विलासरम्येन स्वर्णवस्त्रेणसम्युतम् ।
वस्त्रयुग्मं गृहाणेदं भक्त्या दत्तं मया प्रभो ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः वस्त्रयुग्मं समर्पयामि ।
उपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ॥
अ॒सौ यो॑ऽव॒सर्प॑ति॒ नील॑ग्रीवो॒ विलो॑हितः ।
उ॒तैनं॑ गो॒पा अ॑दृश॒न्नदृ॑शन्नुदहा॒र्य॑: ।
उ॒तैनं॒ विश्वा॑ भू॒तानि॒ स दृ॒ष्टो मृ॑डयाति नः ॥
राजितं ब्रह्मसूत्रं च काञ्चनं उत्तरीयकम् ।
उपवीतं गृहाणेदं भक्त्या दत्तं मया प्रभो ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः यज्ञोपवीतं समर्पयामि ।
गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ॥
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
अथो॒ ये अ॑स्य॒ सत्त्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नम॑: ॥
सर्वभूतप्रमथन सर्वज्ञ सकलोद्भव ।
सर्वात्मन् सर्वभूतेश सुगन्धं सगृहाण भोः ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः दिव्यश्रीचन्दनं समर्पयामि ।
आभरणम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ॥
प्र मु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑व॒: परा॒ ता भ॑गवो वप ॥
हिरण्यहारकेयूर ग्रैवेयमणिकङ्कणैः ।
सुहारं भूषणैर्युक्तं गृहाण पुरुषोत्तम ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः आभरणं समर्पयामि ।
अक्षतान् –
अक्षतान् धवलान् दिव्यान् शालीयांस्तण्डुलान् शुभान् ।
हरिद्रामिश्रितान् तुभ्यं गृहाणासुरसंहर ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः अक्षतान् समर्पयामि ।
पुष्पम् –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ॥
अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो न॑: सु॒मना॑ भव ॥
अघोरपरमप्रख्य अचिन्त्याव्यक्तलक्षण ।
अनन्तादित्यसङ्काशं पुष्पाणि प्रतिगृह्यताम् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः पुष्पाणि समर्पयामि ।
अङ्गपूजा –
ओं धर्मशास्त्रे नमः – पादौ पूजयामि ।
ओं शिल्पशास्त्रे नमः – गुल्फौ पूजयामि ।
ओं वीरशास्त्रे नमः – जङ्घे पूजयामि ।
ओं योगशास्त्रे नमः – जानुनीं पूजयामि ।
ओं महाशास्त्रे नमः – ऊरूं पूजयामि ।
ओं ब्रह्मशास्त्रे नमः – कटिं पूजयामि ।
ओं कालशास्त्रे नमः – गुह्यं पूजयामि ।
ओं शबरिगिरीशाय नमः – मेढ्रं पूजयामि ।
ओं सत्यरूपाय नमः – नाभिं पूजयामि ।
ओं मणिकण्ठाय नमः – उदरं पूजयामि ।
ओं विष्णुतनयाय नमः – वक्षस्थलं पूजयामि ।
ओं शिवपुत्राय नमः – पार्श्वौ पूजयामि ।
ओं हरिहरपुत्राय नमः – हृदयं पूजयामि ।
ओं त्रिनेत्राय नमः – कण्ठं पूजयामि ।
ओं ओङ्काररूपाय नमः – स्तनौ पूजयामि ।
ओं वरदहस्ताय नमः – हस्तान् पूजयामि ।
ओं भीमाय नमः – बाहून् पूजयामि ।
ओं तेजस्विने नमः – मुखं पूजयामि ।
ओं अष्टमूर्तये नमः – दन्तान् पूजयामि ।
ओं शुभवीक्षणाय नमः – नेत्रौ पूजयामि ।
ओं कोमलाङ्गाय नमः – कर्णौ पूजयामि ।
ओं पापविनाशाय नमः – ललाटं पूजयामि ।
ओं शत्रुनाशाय नमः – नासिकां पूजयामि ।
ओं पुत्रलाभाय नमः – चुबुकं पूजयामि ।
ओं गजाधिपाय नमः – ओष्ठौ पूजयामि ।
ओं हरिहरात्मजाय नमः – गण्डस्थलं पूजयामि ।
ओं गणेशपूज्याय नमः – कवचान् पूजयामि ।
ओं चिद्रूपाय नमः – शिरः पूजयामि ।
ओं सर्वेशाय नमः – सर्वाण्यङ्गानि पूजयामि ।
अष्टोत्तरशतनामावली –
श्री अय्यप्प अष्टोत्तर शतनामावली पश्यतु ॥
धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ॥
विज्यं॒ धनु॑: कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथि॑: ॥
धूपं नानापरिमलं यक्षकर्दममिश्रितम् ।
दशाङ्गद्रव्यसम्युक्तं अङ्गीकुरु मयार्पितम् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः धूपं आघ्रापयामि ।
दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥
या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनु॑: ।
तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒ परि॑ब्भुज ॥
घृतवर्तिसमायुक्तं वह्निना योजितं प्रियम् ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः दीपं दर्शयामि ।
धूप दीपानन्तरं शुद्धाचमनीयं समर्पयामि ।
नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ॥
नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे᳚ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने ॥
सुगन्धान् सुकृतांश्चैव मोदकान् घृत पाचितान् ।
नैवेद्यं गृह्यतां देव चणमुद्गैः प्रकल्पितान् ॥
भक्ष्यं भोज्यं च लेह्यं च चोष्यं पानीयमेव च ।
इदं गृहाण नैवेद्यं मया दत्तं महाप्रभो ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ॥
परि॑ ते॒ धन्व॑नो हे॒तिर॒स्मान्वृ॑णक्तु वि॒श्वत॑: ।
अथो॒ य इ॑षु॒धिस्तवा॒रे अ॒स्मन्नि धे॑हि॒ तम् ॥
पूगीफलैः सकर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्णसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ॥
नम॑स्ते अस्तु भगवन्विश्वेश्व॒राय॑ महादे॒वाय॑
त्र्यम्ब॒काय॑ त्रिपुरान्त॒काय॑ त्रिकाग्निका॒लाय॑
कालाग्निरु॒द्राय॑ नीलक॒ण्ठाय॑ मृत्युञ्ज॒याय॑
सर्वेश्व॒राय॑ सदाशि॒वाय॑ श्रीमन्महादे॒वाय॒ नम॑: ॥
चतुर्वर्तिसमायुक्तं घृतेन च सुपूरितम् ।
नीराजनं गृहाणेदं भूतनाथ जगत्पते ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः नीराजनं समर्पयामि ।
नीरजनानन्तरं शुद्धाचमनीयं समर्पयामि ।
मन्त्रपुष्पम् –
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ॥
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो
विश्वा॒भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
ओं ह्रीं हरिहरपुत्राय पुत्रलाभाय शत्रुनाशाय मदगजवाहाय महाशास्त्रे नमः ।
ओं भूतनाथाय विद्महे भवपुत्राय धीमहि ।
तन्नः शास्ता प्रचोदयात् ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः मन्त्रपुष्पं समर्पयामि ।
प्रदक्षिणम् –
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यधा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष हरिहरात्मजा ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिने नमः प्रदक्षिण नमस्कारान् समर्पयामि ।
नमस्कारम् –
ओं रत्नाभं सुप्रसन्नं शशिधरमकुटं रत्नभूषाभिरामं
शूलकेलं कपालं शरमुसलधनुर्बाहु सङ्केतधारम् ।
मत्तेभारूढं आद्यं हरिहरतनयं कोमलाङ्गं दयालुं
विश्वेशं भक्तवन्द्यं शतजनवरदं ग्रामपालं नमामि ॥
शरणु घोष –
श्री अय्यप्प शरणुघोष पश्यतु ॥
शरणु प्रार्थन –
॥ स्वामिये शरणं अय्यप्प ॥
भूतनाथ सदानन्द सर्वभूतदयापरा ।
रक्ष रक्ष महाबाहो शास्तारं प्रणमाम्यहम् ॥ १ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ २ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ ३ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ४ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
अस्मत्कुलेश्वरं देवं अस्मच्छत्रु विनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ५ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् । [भारती]
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ६ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥ ७ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
अरुणोदय सङ्काशं नीलकुण्डलधारिणम् ।
नीलाम्बरधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥ ८ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
चापबाणं वामहस्ते रौप्यवेत्रं च दक्षिणे ।
विलसत्कुण्डलधरं देवं वन्देऽहं विष्णुनन्दनम् ॥ ९ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
व्याघ्रारूढं रक्तनेत्रं स्वर्णमाला विभूषणम् ।
वीरपट्टधरं देवं वन्देऽहं शम्भुनन्दनम् ॥ १० ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
किङ्किण्योढ्याण भूपेतं पूर्णचन्द्रनिभाननम् ।
किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम् ॥ ११ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
भूतभेतालसंसेव्यं काञ्चनाद्रि निवासिनम् ।
मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम् ॥ १२ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
यस्य धन्वन्तरी मात पिता रुद्रोभिषक् नमः ।
त्वं शास्तारमहं वन्दे महावैद्यं दयानिधिम् ॥ १३ ॥
ओं श्री स्वामिये शरणं अय्यप्प ॥
शबरि पर्वते पूज्यं शान्तमानससंस्थितम् ।
भक्तौघ पापहन्तारं अय्यप्पन् प्रणमाम्यहम् ॥ १४ ॥
स्मरण –
स्वामि शरणम् – अय्यप्प शरणं
भगवान् शरणम् – भगवति शरणं
देवन् शरणम् – देवी शरणं
देवन् पादम् – देवी पादं
स्वामि पादम् – अय्यप्प पादं
भगवाने – भगवतिये
ईश्वरने – ईश्वरिये
देवने – देविये
शक्तने – शक्तिये
स्वामिये – अय्यप्पो
पल्लिकट्टु – शबरिमलैक्कु
इरुमुडिकट्टु – शबरिमलैक्कु
कत्तुङ्कट्टु – शबरिमलैक्कु
कल्लुंमुल्लुम् – कालिकिमेत्तै
एत्तिविडय्या – तूकिक्कविडय्या
देहबलन्दा – पादबलन्दा
यारैकान – स्वामियैकान
स्वामियैकण्डाल् – मोक्षङ्किट्टुं
स्वामिमारे – अय्यप्पमारे
नेय्याभिषेकम् – स्वामिक्के
कर्पूरदीपम् – स्वामिक्के
पालाभिषेकम् – स्वामिक्के
भस्माभिषेकम् – स्वामिक्के
तेनाभिषेकम् – स्वामिक्के
चन्दनाभिषेकम् – स्वामिक्के
पूलाभिषेकम् – स्वामिक्के
पन्नीराभिषेकम् – स्वामिक्के
पम्बाशिशुवे – अय्यप्पा
काननवासा – अय्यप्पा
शबरिगिरीशा – अय्यप्पा
पन्दलराजा – अय्यप्पा
पम्बावासा – अय्यप्पा
वन्पुलिवाहन – अय्यप्पा
सुन्दररूपा – अय्यप्पा
षण्मुगसोदर – अय्यप्पा
मोहिनितनया – अय्यप्पा
गणेशसोदर – अय्यप्पा
हरिहरतनया – अय्यप्पा
अनाधरक्षक – अय्यप्पा
सद्गुरुनाथा – अय्यप्पा
स्वामिये – अय्यप्पो
अय्यप्पो – स्वामिये
स्वामि शरणम् – अय्यप्प शरणं
मङ्गलम् –
शङ्कराय शङ्कराय शङ्कराय मङ्गलम् ।
शाङ्करी मनोहराय शाश्वताय मङ्गलम् ॥
गुरुवराय मङ्गलं दत्तात्रेय मङ्गलम् ।
राजा राम मङ्गलं रामकृष्ण मङ्गलम् ॥
अय्यप्प मङ्गलं मणिकण्ठ मङ्गलम् ।
शबरीश मङ्गलं शास्ताय मङ्गलम् ॥
मङ्गलं मङ्गलं नित्य जय मङ्गलम् ।
मङ्गलं मङ्गलं नित्य शुभ मङ्गलम् ॥
प्रार्थन –
अरिञ्जुं अरियामलुं तेरिञ्जुं तेरियामलुं
नान् चेय्यिं एल्लापावङ्गलै पोरुत्तु कात्तुरक्षिक्कुं
सत्यमान पोन्नुं पदिनेट्टां पडियेल् पसिक्कुं
विल्लालि वीरन् वीरमणिकण्ठन् काशी रामेश्वरं
पाण्डि मलयालम् अक्कियालं
ओं श्री हरिहर सुतन्
आनन्द चित्तन् अय्यनय्यप्पन्
स्वामिये शरणं अय्यप्प
क्षमाप्रार्थन –
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हरात्मज ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः हरिहरपुत्र श्री अय्यप्प स्वामि सुप्रीतो सुप्रसन्नो वरदो भवतु ॥
श्री अय्यप्प स्वामि प्रसादं शिरसा गृह्णामि ॥
उद्वासनम् –
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाकं॑ महि॒मान॑: सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः ॥
ओं श्रीहरिहरपुत्र अय्यप्प स्वामिनं यथास्थानं प्रवेशयामि ।
हरिवरासनम् – (रात्रि पूज अनन्तरं)
हरिवरासनं पश्यतु ॥
सर्वं श्री अय्यप्पस्वामि पादार्पणमस्तु ।
ओं शान्ति॒: शान्ति॒: शान्ति॑: ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री अय्यप्प षोडशोपचार पूजा – १
READ
श्री अय्यप्प षोडशोपचार पूजा – १
on HinduNidhi Android App