Misc

श्री बाला मन्त्रगर्भाष्टकम्

Sri Bala Mantragarbha Ashtakam Sanskrit

Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री बाला मन्त्रगर्भाष्टकम् ||

ऐं‍काररूपिणीं सत्यां ऐं‍काराक्षरमालिनीम् ।
ऐं‍बीजरूपिणीं देवीं बालादेवीं नमाम्यहम् ॥ १ ॥

वाग्भवां वारुणीपीतां वाचासिद्धिप्रदां शिवाम् ।
बलिप्रियां वरालाढ्यां वन्दे बालां शुभप्रदाम् ॥ २ ॥

लाक्षारसनिभां त्र्यक्षां ललज्जिह्वां भवप्रियाम् ।
लम्बकेशीं लोकधात्रीं बालां द्रव्यप्रदां भजे ॥ ३ ॥

यैकारस्थां यज्ञरूपां यूं रूपां मन्त्ररूपिणीम् ।
युधिष्ठिरां महाबालां नमामि परमार्थदाम् ॥ ४ ॥

नमस्तेऽस्तु महाबालां नमस्ते शङ्करप्रियाम् ।
नमस्तेऽस्तु गुणातीतां नमस्तेऽस्तु नमो नमः ॥ ५ ॥

महामनीं मन्त्ररूपां मोक्षदां मुक्तकेशिनीम् ।
मांसांशी चन्द्रमौलिं च स्मरामि सततं शिवाम् ॥ ६ ॥

स्वयम्भुवां स्वधर्मस्थां स्वात्मबोधप्रकाशिकाम् ।
स्वर्णाभरणदीप्ताङ्गं बालां ज्ञानप्रदां भजे ॥ ७ ॥

हा हा हा शब्दनिरतां हास्यां हास्यप्रियां विभुम् ।
हुङ्काराद्दैत्यखण्डाख्यां श्रीबालां प्रणमाम्यहम् ॥ ८ ॥

इत्यष्टकं महापुण्यं बालायाः सिद्धिदायकम् ।
ये पठन्ति सदा भक्त्या गच्छन्ति परमां गतिम् ॥ ९ ॥

इति कुलचूडामणितन्त्रे श्रीबालामन्त्रगर्भाष्टकम् ।

Found a Mistake or Error? Report it Now

Download श्री बाला मन्त्रगर्भाष्टकम् PDF

श्री बाला मन्त्रगर्भाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App