श्री भरत कवचम् PDF संस्कृत
Download PDF of Sri Bharata Kavacham Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्री भरत कवचम् संस्कृत Lyrics
|| श्री भरत कवचम् ||
अगस्त्य उवाच ।
अतः परं भरतस्य कवचं ते वदाम्यहम् ।
सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥ १ ॥
कैकेयीतनयं सदा रघुवरन्यस्तेक्षणं श्यामलं
सप्तद्वीपपतेर्विदेहतनयाकान्तस्य वाक्ये रतम् ।
श्रीसीताधवसव्यपार्श्वनिकटे स्थित्वा वरं चामरं
धृत्वा दक्षिणसत्करेण भरतं तं वीजयन्तं भजे ॥ २ ॥
अस्य श्रीभरतकवचमन्त्रस्य अगस्त्य ऋषिः श्रीभरतो देवता अनुष्टुप् छन्दः शङ्ख इति बीजं कैकेयीनन्दन इति शक्तिः भरतखण्डेश्वर इति कीलकं रामानुज इत्यस्त्रं सप्तद्वीपेश्वरदास इति कवचं रामांशज इति मन्त्रः श्रीभरतप्रीत्यर्थं सकलमनोरथसिद्ध्यर्थं जपे विनियोगः ॥
अथ करन्यासः ।
ओं भरताय अङ्गुष्ठाभ्यां नमः ।
ओं शङ्खाय तर्जनीभ्यां नमः ।
ओं कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ओं भरतखण्डेश्वराय अनामिकाभ्यां नमः ।
ओं रामानुजाय कनिष्ठिकाभ्यां नमः ।
ओं सप्तद्वीपेश्वराय करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः ।
ओं भरताय हृदयाय नमः ।
ओं शङ्खाय शिरसे स्वाहा ।
ओं कैकेयीनन्दनाय शिखायै वषट् ।
ओं भरतखण्डेश्वराय कवचाय हुम् ।
ओं रामानुजाय नेत्रत्रयाय वौषट् ।
ओं सप्तद्वीपेश्वराय अस्त्राय फट् ।
ओं रामांशजाय चेति दिग्बन्धः ।
अथ ध्यानम् ।
रामचन्द्रसव्यपार्श्वे स्थितं केकयजासुतम् ।
रामाय चामरेणैव वीजयन्तं मनोरमम् ॥ १ ॥
रत्नकुण्डलकेयूरकङ्कणादिसुभूषितम् ।
पीताम्बरपरीधानं वनमालाविराजितम् ॥ २ ॥
माण्डवीधौतचरणं रशनानूपुरान्वितम् ।
नीलोत्पलदलश्यामं द्विजराजसमाननम् ॥ ३ ॥
आजानुबाहुं भरतखण्डस्य प्रतिपालकम् ।
रामानुजं स्मितास्यं च शत्रुघ्नपरिवन्दितम् ॥ ४ ॥
रामन्यस्तेक्षणं सौम्यं विद्युत्पुञ्जसमप्रभम् ।
रामभक्तं महावीरं वन्दे तं भरतं शुभम् ॥ ५ ॥
एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि ।
कवचं पठनीयं हि भरतस्येदमुत्तमम् ॥ ६ ॥
अथ कवचम् ।
पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः ।
नृपात्मजः प्रतीच्यां हि पातूदीच्यां रघूत्तमः ॥ ७ ॥
अधः पातु श्यामलाङ्गश्चोर्ध्वं दशरथात्मजः ।
मध्ये भरतवर्षेशः सर्वतः सूर्यवंशजः ॥ ८ ॥
शिरस्तक्षपिता पातु भालं पातु हरिप्रियः ।
भ्रुवोर्मध्यं जनकजावाक्यैकतत्परोऽवतु ॥ ९ ॥
पातु जनकजामाता मम नेत्रे सदात्र हि ।
कपोलौ माण्डवीकान्तः कर्णमूले स्मिताननः ॥ १० ॥
नासाग्रं मे सदा पातु कैकेयीतोषवर्धनः ।
उदाराङ्गो मुखं पातु वाणीं पातु जटाधरः ॥ ११ ॥
पातु पुष्करतातो मे जिह्वां दन्तान् प्रभामयः ।
चुबुकं वल्कलधरः कण्ठं पातु वराननः ॥ १२ ॥
स्कन्धौ पातु जितारातिर्भुजौ शत्रुघ्नवन्दितः ।
करौ कवचधारी च नखान् खड्गधरोऽवतु ॥ १३ ॥
कुक्षी रामानुजः पातु वक्षः श्रीरामवल्लभः ।
पार्श्वे राघवपार्श्वस्थः पातु पृष्ठं सुभाषणः ॥ १४ ॥
जठरं च धनुर्धारी नाभिं शरकरोऽवतु ।
कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥ १५ ॥
राममित्रं पातु लिङ्गमूरू श्रीरामसेवकः ।
नन्दिग्रामस्थितः पातु जानुनी मम सर्वदा ॥ १६ ॥
श्रीरामपादुकाधारी पातु जङ्घे सदा मम ।
गुल्फौ श्रीरामबन्धुश्च पादौ पातु सुरार्चितः ॥ १७ ॥
रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा ।
मम पादाङ्गुलीः पातु रघुवंशसुभूषणः ॥ १८ ॥
रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर्मम ।
तूणीरधारी दिवसं दिक्पातु मम सर्वदा ॥ १९ ॥
सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि ।
एवं श्रीभरतस्येदं सुतीक्ष्ण कवचं शुभम् ॥ २० ॥
मया प्रोक्तं तवाग्रे हि महामङ्गलकारकम् ।
स्तोत्राणामुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदम् ॥ २१ ॥
पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदम् ।
पठित्वा भरतस्येदं कवचं रघुनन्दनः ॥ २२ ॥
यथा याति परं तोषं तथा स्वकवचेन न ।
तस्मादेतत्सदा जप्यं कवचानामनुत्तमम् ॥ २३ ॥
अस्यात्र पठनान्मर्त्यः सर्वान्कामानवाप्नुयात् ।
विद्याकामो लभेद्विद्यां पुत्रकामो लभेत्सुतम् ॥ २४ ॥
पत्नीकामो लभेत् पत्नीं धनार्थी धनमाप्नुयात् ।
यद्यन्मनोऽभिलषितं तत्तत्कवचपाठतः ॥ २५ ॥
लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहम् ।
तस्मात्सदा जपनीयं रामोपासकमानवैः ॥ २६ ॥
इति श्रीमदानन्दरामायणे सुतीक्ष्णागस्त्यसंवादे श्रीभरतकवचम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री भरत कवचम्

READ
श्री भरत कवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
