श्री चन्द्र अष्टाविंशति नाम स्तोत्रम् PDF संस्कृत
Download PDF of Sri Chandra Ashtavimsathi Nama Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री चन्द्र अष्टाविंशति नाम स्तोत्रम् संस्कृत Lyrics
|| श्री चन्द्र अष्टाविंशति नाम स्तोत्रम् ||
चन्द्रस्य शृणु नामानि शुभदानि महीपते ।
यानि शृत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥ १ ॥
सुधाकरो विधुः सोमो ग्लौरब्जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुश्चन्द्रमा रोहिणीपतिः ॥ २ ॥
शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरोषधीशः कलानिधिः ॥ ३ ॥
जैवातृको रमाभ्राता क्षीरोदार्णवसम्भवः ।
नक्षत्रनायकः शम्भुश्शिरश्चूडामणिर्विभुः ॥ ४ ॥
तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसम्युक्तस्तस्य पीडा विनश्यति ॥ ५ ॥
तद्दिने च पठेद्यस्तु लभेत्सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेच्चन्द्रबलं सदा ॥ ६ ॥
इति श्री चन्द्र अष्टाविंशतिनाम स्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री चन्द्र अष्टाविंशति नाम स्तोत्रम्
READ
श्री चन्द्र अष्टाविंशति नाम स्तोत्रम्
on HinduNidhi Android App