श्री देवराजाष्टकम् PDF संस्कृत
Download PDF of Sri Devaraja Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री देवराजाष्टकम् संस्कृत Lyrics
|| श्री देवराजाष्टकम् ||
श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् ।
वरदाङ्घ्रिसदासङ्गरसायनपरायणम्
देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् ।
रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम्
नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचनः ।
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥ १ ॥
समस्तप्राणिसन्त्राणप्रवीण करुणोल्बण ।
विलसन्तु कटाक्षस्ते मय्यस्मिन् जगताम्पते ॥ २ ॥
निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः ।
पापीयांस ममर्यादं पाहि मां वरदप्रभो ॥ ३ ॥
संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे ।
विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४ ॥
पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले ।
कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५ ॥
अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् ।
क्षीणशक्तिबलारोग्यं केवलं क्लेशसम्श्रयम् ॥ ६ ॥
सन्तप्तं विविधैर्दुःखैर्दुर्वचै रेवमादिभिः ।
देवराज दयासिन्धो देवदेव जगत्पते ॥ ७ ॥
त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः ।
कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥ ८ ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री देवराजाष्टकम्

READ
श्री देवराजाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
