श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम् PDF

Download PDF of Sri Dhanvantari Ashtottara Shatanama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम् || धन्वन्तरिः सुधापूर्णकलशाढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥ १ ॥ निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः । आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥ २ ॥ निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः । नीलकुञ्चितकेशान्तः परमाद्भुतरूपधृत् ॥ ३ ॥ कटाक्षवीक्षणाश्वस्तवासुकिः सिंहविक्रमः । स्मर्तृहृद्रोगहरणो महाविष्ण्वंशसम्भवः ॥ ४ ॥ प्रेक्षणीयोत्पलश्याम आयुर्वेदाधिदैवतम् । भेषजग्रहणानेहः स्मरणीयपदाम्बुजः ॥ ५ ॥ नवयौवनसम्पन्नः किरीटान्वितमस्तकः । नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलिः ॥ ६ ॥...

READ WITHOUT DOWNLOAD
श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम्
Share This
Download this PDF