श्री धन्वन्तर्यष्टोत्तरशतनामावली PDF संस्कृत
Download PDF of Sri Dhanvantari Ashtottara Shatanamavali Sanskrit
Misc ✦ Ashtottara Shatanamavali (अष्टोत्तर शतनामावली संग्रह) ✦ संस्कृत
श्री धन्वन्तर्यष्टोत्तरशतनामावली संस्कृत Lyrics
|| श्री धन्वन्तर्यष्टोत्तरशतनामावली ||
ओं धन्वन्तरये नमः ।
ओं सुधापूर्णकलशाढ्यकराय नमः ।
ओं हरये नमः ।
ओं जरामृतित्रस्तदेवप्रार्थनासाधकाय नमः ।
ओं प्रभवे नमः ।
ओं निर्विकल्पाय नमः ।
ओं निस्समानाय नमः ।
ओं मन्दस्मितमुखाम्बुजाय नमः ।
ओं आञ्जनेयप्रापिताद्रये नमः । ९
ओं पार्श्वस्थविनतासुताय नमः ।
ओं निमग्नमन्दरधराय नमः ।
ओं कूर्मरूपिणे नमः ।
ओं बृहत्तनवे नमः ।
ओं नीलकुञ्चितकेशान्ताय नमः ।
ओं परमाद्भुतरूपधृते नमः ।
ओं कटाक्षवीक्षणाश्वस्तवासुकये नमः ।
ओं सिंहविक्रमाय नमः ।
ओं स्मर्तृहृद्रोगहरणाय नमः । १८
ओं महाविष्ण्वंशसम्भवाय नमः ।
ओं प्रेक्षणीयोत्पलश्यामाय नमः ।
ओं आयुर्वेदाधिदैवताय नमः ।
ओं भेषजग्रहणानेहस्स्मरणीयपदाम्बुजाय नमः ।
ओं नवयौवनसम्पन्नाय नमः ।
ओं किरीटान्वितमस्तकाय नमः ।
ओं नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलये नमः ।
ओं दीर्घपीवरदोर्दण्डाय नमः ।
ओं कम्बुग्रीवाय नमः । २७
ओं अम्बुजेक्षणाय नमः ।
ओं चतुर्भुजाय नमः ।
ओं शङ्खधराय नमः ।
ओं चक्रहस्ताय नमः ।
ओं वरप्रदाय नमः ।
ओं सुधापात्रोपरिलसदाम्रपत्रलसत्कराय नमः ।
ओं शतपद्याढ्यहस्ताय नमः ।
ओं कस्तूरीतिलकाञ्चिताय नमः ।
ओं सुकपोलाय नमः । ३६
ओं सुनासाय नमः ।
ओं सुन्दरभ्रूलताञ्चिताय नमः ।
ओं स्वङ्गुलीतलशोभाढ्याय नमः ।
ओं गूढजत्रवे नमः ।
ओं महाहनवे नमः ।
ओं दिव्याङ्गदलसद्बाहवे नमः ।
ओं केयूरपरिशोभिताय नमः ।
ओं विचित्ररत्नखचितवलयद्वयशोभिताय नमः ।
ओं समोल्लसत्सुजातांसाय नमः । ४५
ओं अङ्गुलीयविभूषिताय नमः ।
ओं सुधागन्धरसास्वादमिलद्भृङ्गमनोहराय नमः ।
ओं लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलाय नमः ।
ओं लक्ष्मीशोभितवक्षस्काय नमः ।
ओं वनमालाविराजिताय नमः ।
ओं नवरत्नमणीक्लुप्तहारशोभितकन्धराय नमः ।
ओं हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखाय नमः ।
ओं विरजोऽम्बरसंवीताय नमः ।
ओं विशालोरसे नमः । ५४
ओं पृथुश्रवसे नमः ।
ओं निम्ननाभये नमः ।
ओं सूक्ष्ममध्याय नमः ।
ओं स्थूलजङ्घाय नमः ।
ओं निरञ्जनाय नमः ।
ओं सुलक्षणपदाङ्गुष्ठाय नमः ।
ओं सर्वसामुद्रिकान्विताय नमः ।
ओं अलक्तकारक्तपादाय नमः ।
ओं मूर्तिमद्वार्धिपूजिताय नमः । ६३
ओं सुधार्थान्योन्यसम्युध्यद्देवदैतेयसान्त्वनाय नमः ।
ओं कोटिमन्मथसङ्काशाय नमः ।
ओं सर्वावयवसुन्दराय नमः ।
ओं अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुताय नमः ।
ओं पुष्पवर्षणसम्युक्तगन्धर्वकुलसेविताय नमः ।
ओं शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृताय नमः ।
ओं विष्वक्सेनादियुक्पार्श्वाय नमः ।
ओं सनकादिमुनिस्तुताय नमः ।
ओं साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षिताय नमः । ७२
ओं साशङ्कसम्भ्रमदितिदनुवंश्यसमीडिताय नमः ।
ओं नमनोन्मुखदेवादिमौलिरत्नलसत्पदाय नमः ।
ओं दिव्यतेजःपुञ्जरूपाय नमः ।
ओं सर्वदेवहितोत्सुकाय नमः ।
ओं स्वनिर्गमक्षुब्धदुग्धवाराशये नमः ।
ओं दुन्दुभिस्वनाय नमः ।
ओं गन्धर्वगीतापदानश्रवणोत्कमहामनसे नमः ।
ओं निष्किञ्चनजनप्रीताय नमः ।
ओं भवसम्प्राप्तरोगहृते नमः । ८१
ओं अन्तर्हितसुधापात्राय नमः ।
ओं महात्मने नमः ।
ओं मायिकाग्रण्ये नमः ।
ओं क्षणार्धमोहिनीरूपाय नमः ।
ओं सर्वस्त्रीशुभलक्षणाय नमः ।
ओं मदमत्तेभगमनाय नमः ।
ओं सर्वलोकविमोहनाय नमः ।
ओं स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलये नमः ।
ओं रत्नदर्वीलसद्धस्ताय नमः । ९०
ओं देवदैत्यविभागकृते नमः ।
ओं सङ्ख्यातदेवतान्यासाय नमः ।
ओं दैत्यदानववञ्चकाय नमः ।
ओं देवामृतप्रदात्रे नमः ।
ओं परिवेषणहृष्टधिये नमः ।
ओं उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकाय नमः ।
ओं पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहराय नमः ।
ओं राहुकेतुग्रहस्थानपश्चाद्गतिविधायकाय नमः ।
ओं अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनाय नमः । ९९
ओं गरुत्मद्वाहनारूढाय नमः ।
ओं सर्वेशस्तोत्रसम्युताय नमः ।
ओं स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजिताय नमः ।
ओं मोहिनीदर्शनायातस्थाणुचित्तविमोहकाय नमः ।
ओं शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुताय नमः ।
ओं वेदान्तवेद्यमहिम्ने नमः ।
ओं सर्वलोकैकरक्षकाय नमः ।
ओं राजराजप्रपूज्याङ्घ्रये नमः ।
ओं चिन्तितार्थप्रदायकाय नमः । १०८
इति श्री धन्वन्तर्यष्टोत्तरशतनामावली ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री धन्वन्तर्यष्टोत्तरशतनामावली

READ
श्री धन्वन्तर्यष्टोत्तरशतनामावली
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
