श्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्) PDF संस्कृत
Download PDF of Sri Ganesha Stotram 3 Daridrya Dahanam Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्) संस्कृत Lyrics
|| श्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्) ||
सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं
गृहीतपाशकाङ्कुशं वरप्रदाऽभयप्रदम् ।
चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं
प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १ ॥
किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं
प्रचण्डरत्नकङ्कणं प्रशोभिताङ्घ्रियष्टिकम् ।
प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं
सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २ ॥
सुवर्णदण्डमण्डितप्रचण्डचारुचामरं
गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् ।
कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं
षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३ ॥
विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं
गिरीशदर्शनेच्छया समर्पितं पराशया ।
निरन्तरं सुरासुरैः सपुत्रवामलोचनैः
महामखेष्टमिष्टकर्मसु भजामि तुन्दिलम् ॥ ४ ॥
मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं
प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् ।
अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं
नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥ ५ ॥
दारिद्र्यविद्रावणमाशु कामदं
स्तोत्रं पठेदेतदजस्रमादरात् ।
पुत्रीकलत्रस्वजनेषु मैत्री
पुमान्मवेदेकवरप्रसादात् ॥ ६ ॥
इति श्रीमच्छङ्कराचार्यविरचितं श्री गणपति स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्)
READ
श्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्)
on HinduNidhi Android App