श्री गणेश वज्रपञ्जर स्तोत्रम् PDF संस्कृत
Download PDF of Sri Ganesha Vajra Panjara Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री गणेश वज्रपञ्जर स्तोत्रम् संस्कृत Lyrics
|| श्री गणेश वज्रपञ्जर स्तोत्रम् ||
ध्यानम् ।
त्रिनेत्रं गजास्यं चतुर्बाहुधारं
परश्वादिशस्त्रैर्युतं भालचन्द्रम् ।
नराकारदेहं सदा योगशान्तं
गणेशं भजे सर्ववन्द्यं परेशम् ॥ १ ॥
बिन्दुरूपो वक्रतुण्डो रक्षतु मे हृदि स्थितः ।
देहांश्चतुर्विधांस्तत्त्वांस्तत्त्वाधारः सनातनः ॥ २ ॥
देहमोहयुतं ह्येकदन्तः सोऽहं स्वरूपधृक् ।
देहिनं मां विशेषेण रक्षतु भ्रमनाशकः ॥ ३ ॥
महोदरस्तथा देवो नानाबोधान् प्रतापवान् ।
सदा रक्षतु मे बोधानन्दसंस्थो ह्यहर्निशम् ॥ ४ ॥
साङ्ख्यान् रक्षतु साङ्ख्येशो गजाननः सुसिद्धिदः ।
असत्येषु स्थितं मां स लम्बोदरश्च रक्षतु ॥ ५ ॥
सत्सु स्थितं सुमोहेन विकटो मां परात्परः ।
रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥ ६ ॥
आनन्देषु स्थितं नित्यं मां रक्षतु समात्मकः ।
विघ्नराजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥ ७ ॥
अव्यक्तेषु स्थितं नित्यं धूम्रवर्णः स्वरूपधृक् ।
मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥ ८ ॥
स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक् ।
रक्षतु योगभावेन संस्थितो भवनायकः ॥ ९ ॥
अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः ।
निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥ १० ॥
योगशान्तिधरो मां तु रक्षतु योगसंस्थितम् ।
गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥ ११ ॥
पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः ।
वाह्न्यां याम्यां च नैरृत्यां चिन्तामणिर्वरप्रदः ॥ १२ ॥
रक्षतु पश्चिमे ढुण्ढिर्हेरम्बो वायुदिक् स्थितम् ।
विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥ १३ ॥
ऊर्ध्वं सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा ।
सर्वाङ्गेषु मयूरेशः पातु मां भक्तिलालसः ॥ १४ ॥
यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः ।
पुरशुपाशसम्युक्तो वरदाभयधारकः ॥ १५ ॥
इदं गणपतेः प्रोक्तं वज्रपञ्जरकं परम् ।
धारयस्व महादेव विजयी त्वं भविष्यसि ॥ १६ ॥
य इदं पञ्जरं धृत्वा यत्र कुत्र स्थितो भवेत् ।
न तस्य जायते क्वापि भयं नानास्वभावजम् ॥ १७ ॥
यः पठेत् पञ्जरं नित्यं स ईप्सितमवाप्नुयात् ।
वज्रसारतनुर्भूत्वा चरेत्सर्वत्र मानवः ॥ १८ ॥
त्रिकालं यः पठेन्नित्यं स गणेश इवापरः ।
निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥ १९ ॥
यः शृणोति गणेशस्य पञ्जरं वज्रसञ्ज्ञकम् ।
आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥ २० ॥
धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् ।
सर्वसम्पत्समायुक्तमैश्वर्यं पठनाल्लभेत् ॥ २१ ॥
न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा ।
शङ्करादेर्महादेव पठनादस्य नित्यशः ॥ २२ ॥
यं यं चिन्तयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् ।
पठनादस्य विघ्नेश पञ्जरस्य निरन्तरम् ॥ २३ ॥
लक्षावृत्तिभिरेवं स सिद्धपञ्जरको भवेत् ।
स्तम्भयेदपि सूर्यं तु ब्रह्माण्डं वशमानयेत् ॥ २४ ॥
एवमुक्त्वा गणेशानोऽन्तर्दधे मुनिसत्तम ।
शिवो देवादिभिर्युक्तो हर्षितः सम्बभूव ह ॥ २५ ॥
इति श्रीमन्मुद्गले महापुराणे धूम्रवर्णचरिते वज्रपञ्जरकथनं नाम त्रयोविंशोऽध्यायः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री गणेश वज्रपञ्जर स्तोत्रम्

READ
श्री गणेश वज्रपञ्जर स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
