श्री हनुमान् मङ्गलाष्टकम् PDF English
Download PDF of Sri Hanuman Mangala Ashtakam English
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ English
श्री हनुमान् मङ्गलाष्टकम् English Lyrics
|| श्री हनुमान् मङ्गलाष्टकम् ||
वैशाखे मासि कृष्णायां दशम्यां मन्दवासरे ।
पूर्वाभाद्रा प्रभूताय मङ्गलं श्रीहनूमते ॥ १ ॥
करुणारसपूर्णाय फलापूपप्रियाय च ।
माणिक्यहारकण्ठाय मङ्गलं श्रीहनूमते ॥ २ ॥
सुवर्चलाकलत्राय चतुर्भुजधराय च ।
उष्ट्रारूढाय वीराय मङ्गलं श्रीहनूमते ॥ ३ ॥
दिव्यमङ्गलदेहाय पीताम्बरधराय च ।
तप्तकाञ्चनवर्णाय मङ्गलं श्रीहनूमते ॥ ४ ॥
भक्तरक्षणशीलाय जानकीशोकहारिणे ।
सृष्टिकारणभूताय मङ्गलं श्रीहनूमते ॥ ५ ॥
रम्भावनविहाराय गन्धमादनवासिने ।
सर्वलोकैकनाथाय मङ्गलं श्रीहनूमते ॥ ६ ॥
पञ्चाननाय भीमाय कालनेमिहराय च ।
कौण्डिन्यगोत्रजाताय मङ्गलं श्रीहनूमते ॥ ७ ॥
केसरीपुत्र दिव्याय सीतान्वेषपराय च ।
वानराणां वरिष्ठाय मङ्गलं श्रीहनूमते ॥ ८ ॥
इति श्री हनुमान् मङ्गलाष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री हनुमान् मङ्गलाष्टकम्

READ
श्री हनुमान् मङ्गलाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
