श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम् PDF संस्कृत
Download PDF of Sri Indira Ashtottara Shatanama Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम् संस्कृत Lyrics
|| श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम् ||
इन्दिरा विष्णुहृदयमन्दिरा पद्मसुन्दरा ।
नन्दिताऽखिलभक्तश्रीर्नन्दिकेश्वरवन्दिता ॥ १ ॥
केशवप्रियचारित्रा केवलानन्दरूपिणी ।
केयूरहारमञ्जीरा केतकीपुष्पधारणी ॥ २ ॥
कारुण्यकवितापाङ्गी कामितार्थप्रदायनी ।
कामधुक्सदृशा शक्तिः कालकर्मविधायिनी ॥ ३ ॥
जितदारिद्र्यसन्दोहा धृतपङ्केरुहद्वयी ।
कृतविद्ध्यण्डसंरक्षा नतापत्परिहारिणी ॥ ४ ॥
नीलाभ्राङ्गसरोनेत्रा नीलोत्पलसुचन्द्रिका ।
नीलकण्ठमुखाराध्या नीलाम्बरमुखस्तुता ॥ ५ ॥
सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायिता ।
समुद्रतनया सर्वसुरकान्तोपसेविता ॥ ६ ॥
भार्गवी भानुमत्यादिभाविता भार्गवात्मजा ।
भास्वत्कनकताटङ्का भानुकोट्यधिकप्रभा ॥ ७ ॥
पद्मसद्मपवित्राङ्गी पद्मास्या च परात्परा ।
पद्मनाभप्रियसती पद्मभूस्तन्यदायिनी ॥ ८ ॥
भक्तदारिद्र्यशमनी मुक्तिसाधकदायिनी ।
भुक्तिभोग्यप्रदा भव्यशक्तिमदीश्वरी ॥ ९ ॥
जन्ममृत्युज्वरत्रस्तजनजीवातुलोचना ।
जगन्माता जयकरी जयशीला सुखप्रदा ॥ १० ॥
चारुसौभाग्यसद्विद्या चामरद्वयशोभिता ।
चामीकरप्रभा सर्वचातुर्यफलरूपिणी ॥ ११ ॥
राजीवनयनारम्या रामणीयकजन्मभूः ।
राजराजार्चितपदा राजमुद्रास्वरूपिणी ॥ १२ ॥
तारुण्यवनसारङ्गी तापसार्चितपादुका ।
तात्त्विकी तारकेशार्कताटङ्कद्वयमण्डिता ॥ १३ ॥
भव्यविश्राणनोद्युक्ता सव्यक्तसुखविग्रहा ।
दिव्यवैभवसम्पूर्णा नव्यभक्तिशुभोदया ॥ १४ ॥
तरुणादित्यताम्रश्रीः करुणारसवाहिनी ।
शरणागतसन्त्राणचरणा करुणेक्षणा ॥ १५ ॥
वित्तदारिद्र्यशमनी वित्तक्लेशनिवारिणी ।
मत्तहंसगतिः सर्वसत्तासामान्यरूपिणी ॥ १६ ॥
वाल्मीकिव्यासदुर्वासोवालखिल्यादिवाञ्छिता ।
वारिजेक्षणहृत्केकिवारिदायितविग्रहा ॥ १७ ॥
दृष्ट्याऽऽसादितविद्ध्यण्डा सृष्ट्यादिमहिमोच्छ्रया ।
आस्तिक्यपुष्पभृङ्गी च नास्तिकोन्मूलनक्षमा ॥ १८ ॥
कृतसद्भक्तिसन्तोषा कृत्तदुर्जनपौरुषा ।
सञ्जीविताशेषभाषा सर्वाकर्षमतिस्नुषा ॥ १९ ॥
नित्यशुद्धा परा बुद्धा सत्या संविदनामया ।
विजया विष्णुरमणी विमला विजयप्रदा ॥ २० ॥
श्रीङ्कारकामदोग्ध्री च ह्रीङ्कारतरुकोकिला ।
ऐङ्कारपद्मलोलम्बा क्लीङ्कारामृतनिम्नगा ॥ २१ ॥
तपनीयाभसुतनुः कमनीयस्मितानना ।
गणनीयगुणग्रामा शयनीयोरगेश्वरा ॥ २२ ॥
रमणीयसुवेषाढ्या करणीयक्रियेश्वरी ।
स्मरणीयचरित्रा च तरुणी यज्ञरूपिणी ॥ २३ ॥
श्रीवृक्षवासिनी योगिधीवृत्तिपरिभाविता ।
प्रावृड्भार्गववारार्च्या संवृतामरभामिनी ॥ २४ ॥
तनुमध्या भगवती मनुजापिवरप्रदा ।
लक्ष्मी बिल्वाश्रिता पातु सोऽष्टोत्तरशतस्तुता ॥ २५ ॥
इति इन्दिराष्टोत्तरशतनाम स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री इन्दिराष्टोत्तरशतनाम स्तोत्रम्

READ
श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
