श्री जानकी जीवनाष्टकम् PDF संस्कृत
Download PDF of Sri Janaki Jeevana Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री जानकी जीवनाष्टकम् संस्कृत Lyrics
|| श्री जानकी जीवनाष्टकम् ||
आलोक्य यस्यातिललामलीलां
सद्भाग्यभाजौ पितरौ कृतार्थौ ।
तमर्भकं दर्पणदर्पचौरं
श्रीजानकीजीवनमानतोऽस्मि ॥ १ ॥
श्रुत्वैव यो भूपतिमात्तवाचं
वनं गतस्तेन न नोदितोऽपि ।
तं लीलयाह्लादविषादशून्यं
श्रीजानकीजीवनमानतोऽस्मि ॥ २ ॥
जटायुषो दीनदशां विलोक्य
प्रियावियोगप्रभवं च शोकम् ।
यो वै विसस्मार तमार्द्रचित्तं
श्रीजानकीजीवनमानतोऽस्मि ॥ ३ ॥
यो वालिना ध्वस्तबलं सुकण्ठं
न्ययोजयद्राजपदे कपीनाम् ।
तं स्वीयसन्तापसुतप्तचित्तं
श्रीजानकीजीवनमानतोऽस्मि ॥ ४ ॥
यद्ध्याननिर्धूत वियोगवह्नि-
-र्विदेहबाला विबुधारिवन्याम् ।
प्राणान्दधे प्राणमयं प्रभुं तं
श्रीजानकीजीवनमानतोऽस्मि ॥ ५ ॥
यस्यातिवीर्याम्बुधिवीचिराजौ
वंश्यैरहो वैश्रवणो विलीनः ।
तं वैरिविध्वंसनशीललीलं
श्रीजानकीजीवनमानतोऽस्मि ॥ ६ ॥
यद्रूपराकेशमयूखमाला-
-नुरञ्जिता राजरमापि रेजे ।
तं राघवेन्द्रं विबुधेन्द्रवन्द्यं
श्रीजानकीजीवनमानतोऽस्मि ॥ ७ ॥
एवं कृता येन विचित्रलीला
मायामनुष्येण नृपच्छलेन ।
तं वै मरालं मुनिमानसानां
श्रीजानकीजीवनमानतोऽस्मि ॥ ८ ॥
इति श्री जानकीजीवनाष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री जानकी जीवनाष्टकम्

READ
श्री जानकी जीवनाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
