श्री कमलजदयिताष्टकम् PDF संस्कृत
Download PDF of Sri Kamalajadayita Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री कमलजदयिताष्टकम् संस्कृत Lyrics
|| श्री कमलजदयिताष्टकम् ||
शृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे
स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि ।
शम्भुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने
विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १ ॥
कल्यादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्म
प्राबल्यं नेतुकामो यतिवरवपुषागत्य यां शृङ्गशैले ।
संस्थाप्यार्चां प्रचक्रे बहुविधनुतिभिः सा त्वमिन्द्वर्धचूडा
विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २ ॥
पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा-
-त्सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् ।
देवाचार्यद्विजादिष्वपि मनुनिवहे तावकीने नितान्तं
विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३ ॥
विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले
विद्यादानप्रवीणे जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः ।
कामादीनान्तरान्मत्सहजरिपुवरान्देवि निर्मूल्य वेगात्
विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४ ॥
कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं
दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् ।
सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे
विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५ ॥
मातस्त्वत्पादपद्मं न विविधकुसुमैः पूजितं जातु भक्त्या
गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः ।
मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा
विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६ ॥
शान्त्याद्याः सम्पदो वितर शुभकरीर्नित्यतद्भिन्नबोधं
वैराग्यं मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने ।
विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे
विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७ ॥
सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः
सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ ।
तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे
विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८ ॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामि विरचितं श्रीकमलजदयिताष्टकं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री कमलजदयिताष्टकम्

READ
श्री कमलजदयिताष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
