श्री कुबेर षोडशोपचार पूजा PDF संस्कृत
Download PDF of Sri Kubera Puja Vidhanam Sanskrit
Misc ✦ Pooja Vidhi (पूजा विधि) ✦ संस्कृत
श्री कुबेर षोडशोपचार पूजा संस्कृत Lyrics
|| श्री कुबेर षोडशोपचार पूजा ||
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ मम सहकुटुम्बस्य मम च सर्वेषां क्षेम स्थैर्य धैर्य वीर्य विजय अभय आयुरारोग्य अष्टैश्वर्याभिवृद्ध्यर्थं पुत्रपौत्र अभिवृद्ध्यर्थं समस्त मङ्गलावाप्त्यर्थं धन कनक वस्तु वाहन धेनु काञ्चन सिद्ध्यर्थं मम मनश्चिन्तित सकल कार्य अनुकूलता सिद्ध्यर्थं सर्वाभीष्ट सिद्ध्यर्थं श्री सूक्त विधानेन श्री कुबेर षोडशोपचार पूजां करिष्ये ॥
अस्मिन् बिम्बे साङ्गं सायुधं सवाहनं सपरिवारसमेत श्री कुबेर स्वामिनं आवाहयामि स्थापयामि पूजयामि ॥
ध्यानम् –
मनुज बाह्य विमान वर स्थितं
गरुड रत्ननिभं निधिनायकम् ।
शिवसखं मुकुटादि विभूषितं
वर गदे दधतं भज तुन्दिलम् ॥
कुबेरं मनुजासीनं सगर्वं गर्वविग्रहम् ।
स्वर्णच्छायं गदाहस्तं उत्तराधिपतिं स्मरेत् ॥
ओं श्री कुबेर स्वामिने नमः ध्यायामि ।
आवाहनम् –
हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥
आवाहयामि देवेश कुबेर वरदायक ।
शक्तिसम्युत मां रक्ष बिम्बेऽस्मिन् सन्निधिं कुरु ॥
ओं श्री कुबेर स्वामिने नमः आवाहयामि ।
आसनम् –
तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥
विचित्ररत्नखचितं दिव्याम्बरसमन्वितम् ।
कल्पितं च मया भक्त्या स्वीकुरुष्व दयानिधे ॥
ओं श्री कुबेर स्वामिने नमः नवरत्नखचित सुवर्ण सिंहासनं समर्पयामि ।
पाद्यम् –
अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम् ॥
सर्वतीर्थ समानीतं पाद्यं गन्धादि सम्युतम् ।
यक्षेश्वर गृहाणेदं भगवन् भक्तवत्सल ॥
ओं श्री कुबेर स्वामिने नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
कां॒ सो᳚स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
रक्तगन्धाक्षतोपेतं सलिलं पावनं शुभम् ।
अर्घ्यं गृहाण देवेश यक्षराज धनप्रिय ॥
ओं श्री कुबेर स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ।
आचमनीयम् –
च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥
कुबेर देवदेवेश सर्वसिद्धिप्रदायक ।
मया दत्तं यक्षराज गृहाणाचमनीयकम् ॥
ओं श्री कुबेर स्वामिने नमः मुखे आचमनीयं समर्पयामि ।
स्नानम् –
आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥
गङ्गादि सर्वतीर्थेभ्यैरानीतं तोयमुत्तमम् ।
भक्त्या समर्पितं तुभ्यं गृहाण धननायक ॥
ओं श्री कुबेर स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ।
स्नानानन्तरं शुद्ध आचमनीयं समर्पयामि ।
वस्त्रम् –
उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥
रक्तवस्त्रद्वयं चारु देवयोग्यं च मङ्गलम् ।
शुभप्रदं गृहाण त्वं रक्ष यक्षकुलेश्वर ॥
ओं श्री कुबेर स्वामिने नमः वस्त्रार्थं अक्षतान् समर्पयामि ।
यज्ञोपवीतम् –
क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥
स्वर्णसूत्रसमायुक्तं उपवीतं धनेश्वर ।
उत्तरीयेण सहितं गृहाण धननायक ॥
ओं श्री कुबेर स्वामिने नमः यज्ञोपवीतार्थं अक्षतान् समर्पयामि ।
गन्धम् –
ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरी॑ग्ं सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥
चन्दनागरु कर्पूर कस्तूरी कुङ्कुमान्वितम् ।
गन्धं गृहाण वित्तेश सर्वसिद्धिप्रदायक ॥
ओं श्री कुबेर स्वामिने नमः दिव्य श्री चन्दनं समर्पयामि ।
ओं श्री कुबेर स्वामिने नमः हरिद्रा कुङ्कुम कज्जल कस्तूरी गोरोजनादि सुगन्ध द्रव्याणि समर्पयामि ।
आभरणम् –
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑: ॥
रत्नकङ्कण वैढूर्य मुक्ताहारादिकानि च ।
सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भोः ॥
ओं श्री कुबेर स्वामिने नमः आभरणार्थं अक्षतान् समर्पयामि ।
पुष्पाणि –
क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाहृतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् ॥
ओं श्री कुबेर स्वामिने नमः नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
अङ्गपूजा –
ओं अलकापुराधीशाय नमः – पादौ पूजयामि ।
ओं गुह्येश्वराय नमः – गुल्फौ पूजयामि ।
ओं कोशाधीशाय नमः – जङ्घे पूजयामि ।
ओं दिव्याम्बरधराय नमः – ऊरूं पूजयामि ।
ओं यक्षराजाय नमः – कटिं पूजयामि ।
ओं अश्वारूढाय नमः – नाभिं पूजयामि ।
ओं शिवप्रियाय नमः – हृदयं पूजयामि ।
ओं धनाधिपाय नमः – बाहून् पूजयामि ।
ओं मणिकर्णिकाय नमः – कण्ठं पूजयामि ।
ओं प्रसन्नवदनाय नमः – मुखं पूजयामि ।
ओं सुनासिकाय नमः – नासिकां पूजयामि ।
ओं विशालनेत्राय नमः – नेत्रौ पूजयामि ।
ओं कुबेराय नमः – सर्वाण्यङ्गानि पूजयामि ।
अष्टोत्तरशतनाम पूजा –
श्री कुबेर अष्टोत्तरशतनामावली पश्यतु ॥
धूपम् –
आप॑: सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥
दशाङ्गं गुग्गुलोपेतं सुगन्धं सुमनोहरम् ।
धूपं कुबेर गृह्णीष्व प्रसन्नो भव सर्वदा ॥
ओं श्री कुबेर स्वामिने नमः धूपं आघ्रापयामि ।
दीपम् –
आ॒र्द्रां य॒: करि॑णीं य॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आ व॑ह ॥
साज्यं त्रिवर्तिसम्युक्तं वहिना द्योतितं मया
गृहाण मङ्गलं दीपं यक्षेश्वर नमोऽस्तु ते ॥
ओं श्री कुबेर स्वामिने नमः दीपं दर्शयामि ।
नैवेद्यम् –
आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आ व॑ह ॥
नैवेद्यं षड्रसोपेतं फलयुक्तं मनोहरम् ।
इदं गृहाण नैवेद्यं मया दत्तं धनाधिप ॥
ओं श्री कुबेर स्वामिने नमः नैवेद्यं समर्पयामि ।
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ताम्बूलम् –
तां म॒ आ व॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑षान॒हम् ॥
पूगीफलैः सकर्पूरैर्नागवल्ली दलैर्युतम् ।
मुक्ताचूर्णसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्री कुबेर स्वामिने नमः ताम्बूलं समर्पयामि ।
नीराजनम् –
स॒म्राजं॑ च वि॒राजं॑ चाभि॒श्रीर्या च॑ नो गृ॒हे ।
ल॒क्ष्मी रा॒ष्ट्रस्य॒ या मुखे॒ तया॑ मा॒ सग्ं सृ॒जामसि । ।
सन्तत श्रीरस्तु समस्त मङ्गलानि भवन्तु ।
नित्य श्रीरस्तु नित्यमङ्गलानि भवन्तु ॥
ओं श्री कुबेर स्वामिने नमः कर्पूर नीराजनं दर्शयामि ।
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि ।
नमस्करोमि ।
मन्त्रपुष्पम् –
ओं रा॒जा॒धि॒रा॒जाय॑ प्रसह्यसा॒हिने᳚ ।
नमो॑ व॒यं वै᳚श्रव॒णाय॑ कुर्महे ।
स मे॒ कामा॒न्काम॒कामा॑य॒ मह्य᳚म् ।
का॒मे॒श्व॒रो वै᳚श्रव॒णो द॑दातु ।
कु॒बे॒राय॑ वैश्रव॒णाय॑ म॒हा॒रा॒जाय॒ नम॑: ॥
ओं यक्षराजाय विद्महे वैश्रवणाय धीमहि तन्नो कुबेरः प्रचोदयात् ॥
ओं श्रीं ह्रीं क्लीं श्रीं क्लीं वित्तेश्वराय नमः ।
ओं ह्रीं श्रीं ह्रीं कुबेराय नमः ।
ओं यक्षाय कुबेराय वैश्रवणाय धनधान्याधिपतये धनधान्यसमृद्धिं मे देहि दापय स्वाहा ॥
ओं श्री कुबेर स्वामिने नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ।
आत्मप्रदक्षिण नमस्कारम् –
यानिकानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव ।
त्राहि मां कृपया देव शरणागतवत्सला ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष महेश्वर ॥
ओं श्री कुबेर स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।
साष्टाङ्ग नमस्कारम् –
उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोष्टाङ्गमुच्यते ॥
ओं श्री कुबेर स्वामिने नमः साष्टाङ्ग नमस्कारान् समर्पयामि ।
प्रार्थना –
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः ॥
ओं श्री कुबेर स्वामिने नमः प्रार्थना नमस्कारान् समर्पयामि ।
पुनः पूजा –
ओं श्री कुबेर स्वामिने नमः छत्रमाच्छादयामि ।
ओं श्री कुबेर स्वामिने नमः चामरैर्वीजयामि ।
ओं श्री कुबेर स्वामिने नमः नृत्यं दर्शयामि ।
ओं श्री कुबेर स्वामिने नमः गीतं श्रावयामि ।
ओं श्री कुबेर स्वामिने नमः आन्दोलिकानारोहयामि ।
ओं श्री कुबेर स्वामिने नमः अश्वानारोहयामि ।
ओं श्री कुबेर स्वामिने नमः गजानारोहयामि ।
समस्त राजोपचारान् देवोपचारान् समर्पयामि ।
क्षमा प्रार्थन –
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥
आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजाविधिं न जानामि क्षमस्व परमेश्वर ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तुते ॥
अनया श्रीसूक्त विधान पूर्वक ध्यान आवाहनादि षोडशोपचार पूजनेन भगवान् सर्वात्मकः श्री कुबेर स्वामि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥
तीर्थप्रसाद ग्रहणम् –
अकालमृत्यहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री लक्ष्मी कुबेर पादोदकं पावनं शुभम् ॥
श्री कुबेर स्वामि प्रसादं शिरसा गृह्णामि ।
ओं शान्तिः शान्तिः शान्तिः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री कुबेर षोडशोपचार पूजा
READ
श्री कुबेर षोडशोपचार पूजा
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
