श्री कुबेर स्तोत्रम् PDF संस्कृत
Download PDF of Sri Kubera Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री कुबेर स्तोत्रम् संस्कृत Lyrics
|| श्री कुबेर स्तोत्रम् ||
कुबेरो धनद श्रीदः राजराजो धनेश्वरः ।
धनलक्ष्मीप्रियतमो धनाढ्यो धनिकप्रियः ॥ १ ॥
दाक्षिण्यो धर्मनिरतः दयावन्तो धृढव्रतः ।
दिव्य लक्षण सम्पन्नो दीनार्ति जनरक्षकः ॥ २ ॥
धान्यलक्ष्मी समाराध्यो धैर्यलक्ष्मी विराजितः ।
दयारूपो धर्मबुद्धिः धर्म संरक्षणोत्सकः ॥ ३ ॥
निधीश्वरो निरालम्बो निधीनां परिपालकः ।
नियन्ता निर्गुणाकारः निष्कामो निरुपद्रवः ॥ ४ ॥
नवनाग समाराध्यो नवसङ्ख्या प्रवर्तकः ।
मान्यश्चैत्ररथाधीशः महागुणगणान्वितः ॥ ५ ॥
याज्ञिको यजनासक्तः यज्ञभुग्यज्ञरक्षकः ।
राजचन्द्रो रमाधीशो रञ्जको राजपूजितः ॥ ६ ॥
विचित्रवस्त्रवेषाढ्यः वियद्गमन मानसः ।
विजयो विमलो वन्द्यो वन्दारु जनवत्सलः ॥ ७ ॥
विरूपाक्ष प्रियतमो विरागी विश्वतोमुखः ।
सर्वव्याप्तो सदानन्दः सर्वशक्ति समन्वितः ॥ ८ ॥
सामदानरतः सौम्यः सर्वबाधानिवारकः ।
सुप्रीतः सुलभः सोमो सर्वकार्यधुरन्धरः ॥ ९ ॥
सामगानप्रियः साक्षाद्विभव श्री विराजितः ।
अश्ववाहन सम्प्रीतो अखिलाण्ड प्रवर्तकः ॥ १० ॥
अव्ययोर्चन सम्प्रीतः अमृतास्वादन प्रियः ।
अलकापुरसंवासी अहङ्कारविवर्जितः ॥ ११ ॥
उदारबुद्धिरुद्दामवैभवो नरवाहनः ।
किन्नरेशो वैश्रवणः कालचक्रप्रवर्तकः ॥ १२ ॥
अष्टलक्ष्म्या समायुक्तः अव्यक्तोऽमलविग्रहः ।
लोकाराध्यो लोकपालो लोकवन्द्यो सुलक्षणः ॥ १३ ॥
सुलभः सुभगः शुद्धो शङ्कराराधनप्रियः ।
शान्तः शुद्धगुणोपेतः शाश्वतः शुद्धविग्रहः ॥ १४ ॥
सर्वागमज्ञो सुमतिः सर्वदेवगणार्चकः ।
शङ्खहस्तधरः श्रीमान् परं ज्योतिः परात्परः ॥ १५ ॥
शमादिगुणसम्पन्नः शरण्यो दीनवत्सलः ।
परोपकारी पापघ्नः तरुणादित्यसन्निभः ॥ १६ ॥
दान्तः सर्वगुणोपेतः सुरेन्द्रसमवैभवः ।
विश्वख्यातो वीतभयः अनन्तानन्तसौख्यदः ॥ १७ ॥
प्रातः काले पठेत् स्तोत्रं शुचिर्भूत्वा दिने दिने ।
तेन प्राप्नोति पुरुषः श्रियं देवेन्द्रसन्निभम् ॥ १८ ॥
इति श्री कुबेर स्तोत्रम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री कुबेर स्तोत्रम्

READ
श्री कुबेर स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
