श्री कुब्जिका वर्णन स्तोत्रम् PDF संस्कृत
Download PDF of Sri Kubjika Varnana Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री कुब्जिका वर्णन स्तोत्रम् संस्कृत Lyrics
|| श्री कुब्जिका वर्णन स्तोत्रम् ||
नीलोत्पलदलश्यामा षड्वक्त्रा षट्प्रकाशका ।
चिच्छक्तिरष्टादशाख्या बाहुद्वादशसम्युता ॥ १ ॥
सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता ।
कुलकोटिसहस्राख्या कर्कोटो मेखलास्थितः ॥ २ ॥
तक्षकेणोपरिष्टाच्च गले हारश्च वासुकिः ।
कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलः ॥ ३ ॥
भ्रुवोः पद्मो महापद्मो वामे नागः कपालकः ।
अक्षसूत्रं च खट्वाङ्गं शङ्खं पुस्तं च दक्षिणे ॥ ४ ॥
त्रिशूलं दर्पणं खड्गं रत्नमालाङ्कुशं धनुः ।
श्वेतमूर्धं मुखं देव्या ऊर्ध्वश्वेतं तथाम् ॥ ५ ॥
पूर्वास्यं पाण्डुरं क्रोधि दक्षिणं कृष्णवर्णकम् ।
हिमकुन्देन्दुभं सौम्यं ब्रह्मा पादतले स्थितः ॥ ६ ॥
विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः ।
सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः ।
आघूर्णिता कुब्जिकैवं ध्येया पूजादिकर्मसु ॥ ७ ॥
इत्याग्नेये महापुराणे कुब्जिकापूजाकथनं नाम चतुश्चत्वारिंशदधिकशततमोऽध्याये कुब्जिका वर्णन स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री कुब्जिका वर्णन स्तोत्रम्
READ
श्री कुब्जिका वर्णन स्तोत्रम्
on HinduNidhi Android App