श्री लक्ष्मी गायत्री मन्त्रस्तुतिः PDF संस्कृत
Download PDF of Sri Lakshmi Gayatri Mantra Stuti Sanskrit
Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
श्री लक्ष्मी गायत्री मन्त्रस्तुतिः संस्कृत Lyrics
|| श्री लक्ष्मी गायत्री मन्त्रस्तुतिः ||
श्रीर्लक्ष्मी कल्याणी कमला कमलालया पद्मा ।
मामकचेतः सद्मनि हृत्पद्मे वसतु विष्णुना साकम् ॥ १ ॥
तत्सदों श्रीमितिपदैश्चतुर्भिश्चतुरागमैः ।
चतुर्मुखस्तुता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २ ॥
सच्चित्सुखत्रयीमूर्ति सर्वपुण्यफलात्मिका ।
सर्वेशमहिषी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ३ ॥
विद्या वेदान्तसिद्धान्तविवेचनविचारजा ।
विष्णुस्वरूपिणी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ४ ॥
तुरीयाऽद्वैतविज्ञानसिद्धिसत्तास्वरूपिणी ।
सर्वतत्त्वमयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ५ ॥
वरदाऽभयदाम्भोजधर पाणिचतुष्टया ।
वागीशजननी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ६ ॥
रेचकैः पूरकैः पूर्णकुम्भकैः पूतदेहिभिः ।
मुनिभिर्भाविता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ७ ॥
णीत्यक्षरमुपासन्तो यत्प्रसादेन सन्ततिम् ।
कुलस्य प्राप्नुयुर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ८ ॥
यन्त्रमन्त्रक्रियासिद्धिरूपा सर्वसुखात्मिका ।
यजनादिमयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ९ ॥
भगवत्यच्युते विष्णावनन्ते नित्यवासिनी ।
भगवत्यमला मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १० ॥
गोविप्रवेदसूर्याग्निगङ्गाबिल्वसुवर्णगा ।
सालग्राममयी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ ११ ॥
देवता देवतानां च क्षीरसागरसम्भवा ।
कल्याणी भार्गवी मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १२ ॥
वक्ति यो वचसा नित्यं सत्यमेव न चानृतम् ।
तस्मिन्या रमते मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १३ ॥
स्यमन्तकादिमणयो यत्प्रसादांशकांशकाः ।
अनन्तविभवा मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १४ ॥
धीराणां व्यासवाल्मीकिपूर्वाणां वाचकं तपः ।
यत्प्राप्तिफलकं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १५ ॥
महानुभावैर्मुनिभिः महाभागैस्तपस्विभिः ।
आराध्यप्रार्थिता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १६ ॥
हिमाचलसुतावाणीसख्यसौभाग्यलक्षणा ।
या मूलप्रकृतिर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १७ ॥
धिया भक्त्या भिया वाचा तपः शौचक्रियार्जवैः ।
सद्भिः समर्चिता मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १८ ॥
योगेन कर्मणा भक्त्या श्रद्धया श्रीः समाप्यते ।
सत्यशौचपरैर्मह्यमिन्दिरेष्टं प्रयच्छतु ॥ १९ ॥
योगक्षेमौ सुखादीनां पुण्यजानां निजार्थिने ।
ददाति दयया मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २० ॥
नः शरीराणि चेतांसि करणानि सुखानि च ।
यदधीनानि सा मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २१ ॥
प्रज्ञामायुर्बलं वित्तं प्रजामारोग्यमीशताम् ।
यशः पुण्यं सुखं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २२ ॥
चोरारिव्यालरोगार्णग्रहपीडानिवारिणी ।
अनीतीरभयं मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २३ ॥
दयामाश्रितवात्सल्यं दाक्षिण्यं सत्यशीलताम् ।
नित्यं या वहते मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २४ ॥
या देव्यव्याजकरुणा या जगज्जननी रमा ।
स्वतन्त्रशक्तिर्या मह्यमिन्दिरेष्टं प्रयच्छतु ॥ २५ ॥
ब्रह्मण्यसुब्रह्मण्योक्तां गायत्र्यक्षरसम्मिताम् ।
इष्टसिद्धिर्भवेन्नित्यं पठतामिन्दिरास्तुतिम् ॥ २६ ॥
इति श्री लक्ष्मी गायत्रीमन्त्र स्तुतिः ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री लक्ष्मी गायत्री मन्त्रस्तुतिः

READ
श्री लक्ष्मी गायत्री मन्त्रस्तुतिः
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
