श्री लक्ष्मीनृसिंहाष्टकम् PDF संस्कृत
Download PDF of Sri Lakshmi Narasimha Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री लक्ष्मीनृसिंहाष्टकम् संस्कृत Lyrics
|| श्री लक्ष्मीनृसिंहाष्टकम् ||
यं ध्यायसे स क्व तवास्ति देव
इत्युक्त ऊचे पितरं सशस्त्रम् ।
प्रह्लाद आस्तेखिलगो हरिः स
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ १ ॥
तदा पदाताडयदादिदैत्यः
स्तम्भं ततोऽह्नाय घुरूरुशब्दम् ।
चकार यो लोकभयङ्करं स
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ २ ॥
स्तम्भं विनिर्भिद्य विनिर्गतो यो
भयङ्कराकार उदस्तमेघः ।
जटानिपातैः स च तुङ्गकर्णो
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ३ ॥
पञ्चाननास्यो मनुजाकृतिर्यो
भयङ्करस्तीक्ष्णनखायुधोऽरिम् ।
धृत्वा निजोर्वोर्विददार सोऽसौ
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ४ ॥
वरप्रदोक्तेरविरोधतोऽरिं
जघान भृत्योक्तमृतं हि कुर्वन् ।
स्रग्वत्तदन्त्रं निदधौ स्वकण्ठे
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ५ ॥
विचित्रदेहोऽपि विचित्रकर्मा
विचित्रशक्तिः स च केसरीह ।
पापं च तापं विनिवार्य दुःखं
लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ ६ ॥
प्रह्लादः कृतकृत्योऽभूद्यत्कृपालेशतोऽमराः ।
निष्कण्टकं स्वधामापुः श्रीनृसिंहः स पातु माम् ॥ ७ ॥
दंष्ट्राकरालवदनो रिपूणां भयकृद्भयम् ।
इष्टदो हरति स्वस्य वासुदेवः स पातु माम् ॥ ८ ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीवासुदेवानन्दसरस्वती विरचितं श्री लक्ष्मीनृसिंहाष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री लक्ष्मीनृसिंहाष्टकम्

READ
श्री लक्ष्मीनृसिंहाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
