श्री लक्ष्मीनारायणाष्टकम् PDF संस्कृत
Download PDF of Sri Lakshmi Narayana Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री लक्ष्मीनारायणाष्टकम् संस्कृत Lyrics
|| श्री लक्ष्मीनारायणाष्टकम् ||
आर्तानां दुःखशमने दीक्षितं प्रभुमव्ययम् ।
अशेषजगदाधारं लक्ष्मीनारायणं भजे ॥ १ ॥
अपारकरुणाम्भोधिं आपद्बान्धवमच्युतम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ २ ॥
भक्तानां वत्सलं भक्तिगम्यं सर्वगुणाकरम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ३ ॥
सुहृदं सर्वभूतानां सर्वलक्षणसम्युतम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ४ ॥
चिदचित्सर्वजन्तूनां आधारं वरदं परम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ५ ॥
शङ्खचक्रधरं देवं लोकनाथं दयानिधिम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ६ ॥
पीताम्बरधरं विष्णुं विलसत्सूत्रशोभितम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ७ ॥
हस्तेन दक्षिणेनाजं अभयप्रदमक्षरम् ।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे ॥ ८ ॥
यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम् ।
विमुक्तः सर्वपापेभ्यः विष्णुलोकं स गच्छति ॥ ९ ॥
इति श्री लक्ष्मीनारायणाष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री लक्ष्मीनारायणाष्टकम्

READ
श्री लक्ष्मीनारायणाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
